सामग्री पर जाएँ
सर्वकोश
प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)

प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)

Pramanavarttika of Acharya Dharmakirti with Manorathanandin Commentary

आचार्य धर्मकीर्ति (वृत्ति: मनोरथनन्दी, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished532 पृष्ठ

पृष्ठ 233, कुल 532 में से

संदर्भ में पढ़ें
पृष्ठ 233

Here is the line-by-line transcription of the Sanskrit text from the provided image:

प्रत्यक्षपरिच्छेदः २०७
भावा येन निरूप्यन्ते तद्रूपं नास्ति तत्त्वतः ।
यस्मादेकमनेकं च रूपं तेषां न विद्यते ॥ ३६० ॥
साधर्म्यदर्शनाल्लोके भ्रान्तिर्नामोपजायते ।
अतदात्मनि तादात्म्यव्यवसायेन नेह तत् ॥ ३६१ ॥
अदर्शनाज्जगत्यस्मिन्नेकस्यापि तदात्मनः ।
अस्तीयमपि या त्वन्तरुपप्लवसमुद्भवा ॥ ३६२ ॥
दोषोद्भूवा प्रकृत्या सा वितथप्रतिभासिनी ।
अनपेक्षितसाधर्म्यदृगादिस्तैमिरादिवत् ॥ ३६३ ॥
तत्र बुद्धेः परिच्छेदो ग्राहकाकारसम्मतः ।
तस्माद् भावा ग्राह्यादयो येन रूपेण ग्राह्यत्वादिन निरूप्यन्ते अनु-
भूयन्ते तद्रूपं तत्त्वतस्तेषां नास्ति; यस्मादेकं रूपमनेकञ्च रूपं तेषां न
विद्यते । वस्तु भवदेकमनेकं वा स्यात् । न च ग्राह्याद्यभाव एकोऽनेको वा
युक्तः । तस्मादुपप्लव एवायम् ॥ ३६० ॥
ननु लोके साधर्म्यदर्शनादतदात्मनि तादात्म्यव्यवसायेन भ्रान्ति-
र्वितथाकारा बुद्धिर्जायते इति नाम प्रसिद्धम् । इह विज्ञप्तिनये तत् साधर्म्य-
दर्शनं नास्ति; एकस्यापि तदात्मनो भूताकारस्य जगत्यदर्शनात् ? अत्राह—
साधर्म्यदर्शनाद् या मानसी भ्रान्तिः, इयमप्यस्ति। या पुनरन्तरुपप्लवसमुद्भवा
अविद्याप्रभवा, सा प्रकृत्या दोषोद्भूवा अविद्या तिमिरादिहेतुका वितथप्रति-
भासिन्यभूताकारा अनपेक्षितसाधर्म्यदृगादिस्तैमिरादिवत् । यथा तिमिर-
ज्ञानमिन्द्रियदोषादनपेक्षितसाधर्म्यमेव जायते, तथा ग्राह्यादिभ्रान्तिरपोत्यर्थः ।
जायमानमेव हि ज्ञानं वासनासामर्थ्यादनुभवानुभवत्वेनान्तर्बहिर्देशत्वेन सुखादि
नीलादि दर्शयति । एवं तर्हि बहिरर्थोपदर्शनशक्तमेव स्वदर्शनहेतुबलात्
कस्मान्नेष्यत ज्ञानमिति चेत् ? न; स्वप्नादावविद्याया असद्ग्राह्याकारोपदर्शन-
सामर्थ्योपलब्धेः । आकारातिरिक्तबहिरर्थस्यादर्शनान्न ज्ञानस्य तदुपदर्शनसामर्थ्य-
कल्पना न्याय्येत्यास्तां तावदिदम् ॥ ३६१-३६३ ॥
विज्ञप्तिमात्रतायां प्रमाणफलव्यवस्थापनार्थमाह— तत्र विज्ञप्तिमात्रतायां बुद्धेः