प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)
Pramanavarttika of Acharya Dharmakirti with Manorathanandin Commentary
आचार्य धर्मकीर्ति (वृत्ति: मनोरथनन्दी, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 231, कुल 532 में से
संदर्भ में पढ़ेंप्रत्यक्षपरिच्छेदः २०५
यथाकथञ्चित् तस्यार्थरूपं मुक्त्वावभासिनः ।
अर्थग्रहः कथम् ?
सत्यं न जानेऽहमपीदृशम् ॥ ३५३ ॥
अविभागोऽपि बुद्ध्यात्मविपर्यासितदर्शनैः ।
ग्राह्यग्राहकसंवित्तिभेदवानिव लक्ष्यते ॥ ३५४ ॥
मन्त्राद्युपप्लुताक्षाणां यथा मृच्छकलादयः ।
अन्यथैवावभासन्ते तद्रूपरहिता अपि ॥ ३५५ ॥
तथैव दर्शनात् तेषामनुपप्लुतचक्षुषा¹ ।
दूरे यथा वा मरुषु महानल्पोऽपि दृश्यते ॥ ३५६ ॥
यदि सारूप्याभावस्तदा तस्य ज्ञानस्यावभासिनो यथाकथञ्चिदिष्ट-
निष्ठादिना भासमानमर्थरूपमर्थाकारं मुक्त्वा कथं केन प्रकारेणार्थस्य ग्रहः
स्यात् । न ह्यर्थः स्वरूपेण दृश्यते । तत्स्वरूपबुद्धिवेदनादर्थग्रहव्यवस्था ।
सारूप्यमेव चेन्न सम्भवति कथमर्थग्रह इति मन्यते सौत्रान्तिकः ।
योगाचारस्तु तस्य साहाय्यकं मन्यमान आह—सत्यं न जानेऽहमपी-
दृशम्—अर्थग्रहः कथमिति ॥ ३५३ ॥
कथं तर्ह्यसत्यर्थे ग्राह्यग्राहकफलभेदः ? इत्याह—परमार्थतोऽविभागो भेद-
रहितोऽपि बुद्ध्यात्मद्वयवासनया विपर्यासितं विभागेनोपदर्शितं दर्शनं येषां
तैरतत्त्वदर्शिपुरुषैर्ग्राह्यग्राहकसंवित्तीनां परस्परं भेदस्तद्वानिव लक्ष्यते ॥३५४॥
अत्र दृष्टान्तमाह—यथा मृच्छकलादयो मन्त्रादिभिरुपप्लुतयथार्थ-
ज्ञानहेतुकृतमक्षं येषां तेषामन्यथा सुवर्णादित्वेनैवावभासन्ते । तेन सुवर्णा-
दिना रूपेण रहिता अपि वस्तुतः ॥ ३५५ ॥
कस्मात् पुनर्मन्त्रादिसामर्थ्यात् सुवर्णादितामेव यातं मृत्खण्डमिति नाभ्युपग-
म्यते ? इत्याह- मन्त्रादिनाऽनुपप्लुतचक्षुषान्येन पुंसा तेषां मृच्छकलादीनां
यथोपहताक्षेण ते दृश्यन्ते तथैव दर्शनात् मृदात्मत्वेनैव दर्शनात् सुवर्णादित्वेन
निष्पत्तिकल्पनमयुक्तम् । यथा मरुषु दूरेऽल्पोऽपि महान् दृश्यते तद्देशस्थैरल्प-
१. ॰मनुपप्लुतचक्षुषाम्—रा० ।