प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)
Pramanavarttika of Acharya Dharmakirti with Manorathanandin Commentary
आचार्य धर्मकीर्ति (वृत्ति: मनोरथनन्दी, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 175, कुल 532 में से
संदर्भ में पढ़ेंप्रत्यक्षपरिच्छेदः १४९
मुख्यो¹ गौणश्च भावेष्वप्यभावस्योपचारतः ॥ १५९ ॥
संकेतान्वयिनी रूढिर्वक्तुरिच्छान्वयी च सः ।
क्रियते व्यवहारार्थं छन्दः शब्दांशनामवत्² ॥ १६० ॥
वस्तुधर्मतयैवार्थास्तादृग्विज्ञानकारणम् ।
भेदेऽपि यत्र तज्ज्ञानं³ तांस्तथा प्रतिपद्यते ॥ १६१ ॥
ज्ञानान्यपि तथा भेदेऽभेदप्रत्यवमर्शने ।
इत्यतत्कार्यविश्लेषस्यान्वयो नैकवस्तुनः ॥ १६२ ॥
स मुख्यः । यश्च तस्य मुख्यस्य साम्यात् तथा मुख्यवाचकशब्देनोच्यते,
स गौणः ।
कुत एतद् ? इत्याह—भावेष्वपि कुपुत्रादिषु पुत्रादिरित्यभावोपचारतः ।
परमते तु भावे वृत्तत्वान्मुख्यत्वं भवेत् ॥ १५९ ॥
स्यादेतत् । रूढश्चैव मुख्यता, किन्तु सापि भिन्ने विशेषणे सति ? इत्याह—न;
संकेतान्वयिनी यथासंकेतं रूढिः, स च संकेतो वक्तुः संकेतयितुरिच्छान्वयी
व्यवहारार्थं क्रियते । छन्दसो गायत्र्यादेः शब्दांशस्य प्रकृतिप्रत्ययादेर्नाम-
वत् । न हि विशिष्टानुपूर्वीकेषु वर्णेषु पृथग्भूतं गायत्र्यादिशब्दनिमित्तं किञ्चिदस्ति,
शब्दांशेषु वा; अपि तु संकेतयितुरिच्छानुरोधादेव तथा व्यपदेशः ॥ १६० ॥
यदि व्यक्तिभ्यो न भिन्नं सामान्यम्, तदा कथमनुगामी प्रत्ययः ? इत्याह—
वस्तुधर्मतया प्रकृत्यैव केचिदर्थाः परस्परं भेदेऽपि तादृशस्यानुगामिनोऽ-
तत्कार्यव्यावृत्तिविषयस्य विज्ञानस्य कारणम् । यत्र येष्वर्थेष्वनुगामि ज्ञानं
तानभेदिनोऽर्थान् तथा एकत्वेन प्रतिपद्यते, न त्वेकसामान्यबलात् तथा
ज्ञानम् ॥ १६१ ॥
स्यादेतत् । प्रतिव्यक्ति ज्ञानान्यपि भिन्नानीति कथमनुगामि ज्ञानम् ?
इत्याह—ज्ञानान्यपि परस्परतो भेदे तथाऽर्थवद्वस्तुधर्मतयाऽभेदप्रत्यवमर्शने
निमित्तम्, ततो ज्ञानान्यपि तदेकपरामर्शगोचरतयाऽनुगामिप्रत्यया उच्यन्ते
इत्यनेन प्रकारेण भेदिष्वर्थेष्वतत्कार्यादर्थस्य विश्लेषो व्यवच्छेदस्तस्यान्वयो
विद्यते, न त्वेकस्य वस्तुनः सामान्यस्य ॥ १६२ ॥
१. यत्र—रा० । २. शब्दाङ्ग ०—पाठा० । ३. तज्ज्ञानात्—रा० ।