प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)
Pramanavarttika of Acharya Dharmakirti with Manorathanandin Commentary
आचार्य धर्मकीर्ति (वृत्ति: मनोरथनन्दी, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 174, कुल 532 में से
संदर्भ में पढ़ें१४८ प्रमाणवार्त्तिके
मालाबहुत्वे तच्छब्दः कथं जातेरजातितः ॥ १५६ ॥
मालादौ च महत्त्वादिर्दिष्टो यश्चौपचारिकः ।
मुख्याविशिष्टविज्ञानग्राह्यत्वान्नौपचारिकः ॥ १५७ ॥
अनन्यहेतुता तुल्या सा मुख्याभिमतेष्वपि ।
पदार्थशब्दः कं हेतुमन्यं षट्सु¹ समीक्षते ॥ १५८ ॥
यो यथा रूढितः² सिद्धस्तत्साम्याद् यस्तथोच्यते ।
तथा गेहमालानां बहुत्वे तच्छब्दो मालेत्यनुगामिशब्दः कथं जातेर्मालायाम्;
अजातितो जात्यन्तरविरहात् ! ॥ १५६ ॥
किञ्च—महती प्रासादमालेति कथं व्यपदेशः; महत्त्वं परिमाणं गुणः,
तस्य मालायां न सत्त्वम् । न हि प्रासादमाला किञ्चिदित्युक्तम् । नापि संयोगलक्षणे
प्रासादे महत्त्वम्; निर्गुणत्वात् गुणानाम् । काष्ठादिषु द्रव्येषु प्रासादारम्भकेषु
महत्त्वसत्त्वाद् वृक्षेषु कुसुमसंभवात् वनसंख्यालक्षण