सामग्री पर जाएँ
सर्वकोश
प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)

प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)

Pramanavarttika of Acharya Dharmakirti with Manorathanandin Commentary

आचार्य धर्मकीर्ति (वृत्ति: मनोरथनन्दी, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished532 पृष्ठ

पृष्ठ 173, कुल 532 में से

संदर्भ में पढ़ें
पृष्ठ 173

प्रत्यक्षपरिच्छेदः १४७
अनुमानतो न जातिसिद्धिः
अनुमानं च जात्यादौ वस्तुनो नास्ति भेदिनि ।
सर्वत्र व्यपदेशो हि दण्डादेरपि सांवृतात् ॥ १५४ ॥
वस्तुप्रासादमालादिशब्दाश्चान्यानपेक्षिणः ।
गेहो यद्यपि संयोगस्तन्माला किन्तु¹ तद् भवेत् ॥ १५५ ॥
जातिश्चेद् गेह एकोऽपि मालेत्युच्येत वृक्षवत् ।
स्यादेतत्—विशिष्टप्रतीतिर्विशेषणप्रतीतिपूर्विका, यथा दण्डिप्रतीतिः,
विशिष्टप्रतीतिश्च शाबलेयादिषु गौरिति, विशेषणञ्च शाबलेयादिषु गोत्वमे-
वेत्यनुमानतो जातिसिद्धिः ? इत्याह—अनुमानं वस्तुनः शाबलेयादेर्भेदिनि
जात्यादौ नास्ति । न हि व्यक्तिव्यतिरिक्तं विशेषणमुपलभ्यते, शृङ्गाद्यवयव-
सन्निवेश एव त्वभिन्नो विशेषणमस्तु । तथा च नाभिमंतसिद्धिः ।
दृष्टान्तासिद्धिमप्याह—सर्वत्र पुरुषादौ 'दण्डी' इत्यादिव्यपदेशोऽपि हि न
दण्डादेर्वस्तुनः; किन्तु सांवृतात् । दण्डस्वलक्षणस्य व्यपदेशे हेतुत्वे सर्वत्र
पुरुषे स्यात् । सम्बन्धिन्येवान्यत्रेति चेत् ? तर्हि सम्बन्धो दण्डः, कारणं दण्डि,
व्यपदेशस्य सम्बन्धश्च संयोगादिर्नास्तीति परं कार्यकारणभावः परिशिष्यते ।
तस्य निमित्तत्वे यथा 'दण्डी पुरुषः', तथा 'पुरुषी दण्डः' इत्यपि स्यात्; समान-
त्वान्निमित्तस्य । तस्मात् कल्पितविशेषणभावनियमो दण्डः सम्बन्धी सांवृत
एव विशेषणम् ॥ १५४ ॥
किञ्च—षट्सु पदार्थेषु वस्तु वस्त्विति सर्वानुयायी शब्दः, प्रासादेषु
प्रासादमालेति शब्दः, गृहेषु बहुषु नगरमित्यादिशब्दाश्चान्यानपेक्षिणोऽर्था-
न्तरभूतविशेषणरहिता इति व्यभिचारिता हेतोः । न हि पदार्थेषु व्यतिरिक्तं
सामान्यं वस्तुतात्वमभ्युपगम्यते वैशेषिकैः । न च प्रासादो द्रव्यम्; विजातीयानां
द्रव्याणारम्भात् । ततश्च मालागुणोऽपि गेहो यद्यपि संयोगस्तस्य माला किन्नु
तद् भवेत् । न भावगुणः; निर्गुणत्वात् गुणानाम् ॥ १५५ ॥
जातिश्चेदभ्युपगम्यते एको गेहो मालेत्युच्येत, वृक्षवत् । यथा
वृक्षत्वजातियोगादेको वृक्षो वृक्ष इत्युच्यते, एवमेकोऽपि गेहो माला स्यात् ।
१. किन्तु—रा० । एवं वृत्तावपि ।