सामग्री पर जाएँ
सर्वकोश
प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)

प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)

Pramanavarttika of Acharya Dharmakirti with Manorathanandin Commentary

आचार्य धर्मकीर्ति (वृत्ति: मनोरथनन्दी, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished532 पृष्ठ

पृष्ठ 170, कुल 532 में से

संदर्भ में पढ़ें
पृष्ठ 170

१४४ प्रमाणवार्त्तिके
साम्यादक्षधियामुक्तमनेनानुभवादिकम् ॥ १४४ ॥
सामान्यनिराकरणम्
विशेषणं विशेष्यञ्च सम्बन्धं लौकिकीं स्थितिम् ।
गृहीत्वा सङ्कलय्यैतत् तथा प्रत्येति नान्यथा ॥ १४५ ॥
यथा दण्डिनि जात्यादेर्विवेकेनानिरूपणात् ।
तद्वत्ता योजना नास्ति कल्पनाप्यत्र नास्त्यतः ॥ १४६ ॥
यदप्यन्वयि विज्ञानं शब्दव्यक्त्यवभासि तत् ।
वर्णाकृत्यक्षराकारशून्यं गोत्वं हि वर्ण्यते ॥ १४७ ॥
व्युत्पन्नयोरक्षधियामशब्दसंसृष्टत्वमात्रानुकरणेन साम्यात् ! अनेनेन्द्रियजत्व-
दूषणेनानुभव आदिर्यस्य मानसत्वादेस्तदुक्तं दोषवत्तया बोद्धव्यम् ॥ १४४ ॥
अविकल्पसिद्धौ परमतं दूषयित्वा स्वयमुपपत्त्यन्तरमाह—विशेषणं व्यव-
च्छेदकं विशेष्यं व्यवच्छेद्यं तयोः सम्बन्धं यथासम्भवं समवायादिकं लौकिकीं
लोकप्रसिद्धां स्थितिं व्यवस्थां च जात्यादिकं विशेषणम्, विशेष्यं द्रव्यादि, विशेषण-
विशेष्यशब्दयोश्च पूर्वापरनियम इति पृथक् प्रत्येकं स्वरूपेण गृहीत्वा तदन्तर-
मेतत् सर्वं सङ्कलय्य संयोज्य तथा विशेषणविशिष्टत्वेन प्रत्येति विशिष्टबुद्धिः,
नान्यथा विशेषणाद्यग्रहणे ॥ १४५ ॥
यथा दण्डिनि 'दण्डी' इति विशिष्टबुद्धिः दण्डपुरुषतत्सम्बन्धादिग्रहण-
पूर्विका तदग्रहे च न भवति । जातिरादिर्यस्य गुणकर्मादेः स्वरूपस्य जात्या-
दिमतो विवेकेनानिरूपणात् तद्वत्ता जातिमत्ता योजना विशेषणविशेष्य-
भावो नास्ति । अतो योजनाविरहात् अत्र जातिमदादौ कल्पनापि नास्तीति
तस्माज्जात्यादियोजनात्मिका कल्पना नास्ति । शब्दयोजनात्मिका तु सम्भाव्येत ।
सापि स्वलक्षणे संकेताभावान्निरस्ता प्राक् ॥ १४६ ॥
ननु यदि सामान्याभासः, तदा विभिन्नासु व्यक्तिषु कथमन्वयिप्रत्ययः ?
इत्याह—यदप्यन्वयि विज्ञानमुत्पद्यते, तच्च शब्दस्य 'गौः' इत्यादेर्व्यक्तेश्च
वर्णसंस्थानविशेषस्य आभास आकारस्तद्वत् प्रतीयते, न जात्याभासवत् ।
किं पुनः सामान्याभासमेव न ? इत्याह—वर्णो नीलादिराकृतिः संस्थान-

प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ) · पृष्ठ 170, कुल 532 में से · SarvaKosh