प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)
Pramanavarttika of Acharya Dharmakirti with Manorathanandin Commentary
आचार्य धर्मकीर्ति (वृत्ति: मनोरथनन्दी, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 169, कुल 532 में से
संदर्भ में पढ़ेंप्रत्यक्षपरिच्छेदः १४३
शङ्करस्वामिप्रभृतिमत्खण्डनम्
केचिदिन्द्रियजत्वादेर्बालधीवदकल्पनाम् ।
आहुर्बालाविकल्पे च हेतुं संकेतमन्दताम् ॥ १४१ ॥
तेषां प्रत्यक्षमेव स्याद् बालानामविकल्पनात् ।
संकेतोपायविगमात् पश्चादपि भवेन्न सः ॥ १४२ ॥
मनो व्युत्पन्नसंकेतमस्ति तेन स चेन्मतः ।
एवमिन्द्रियजेऽपि स्याद् शेषवच्चेदमीदृशम् ॥ १४३ ॥
यदेव साधनं बाले तदेवात्रापि कथ्यताम् ।
दशां भिन्नभिन्नदेशालातदर्शनानां घटनेन योजनया सा मानसी भ्रान्तिः, स्फुट-
प्रतिभासत्वात्, मानसस्य च विपर्ययात् । तस्माद् 'अहिरहिः' इति विकल्पसम-
कालमध्यक्षं वस्तु स्फुटमवैति; न तु विकल्प इति स्थितम् ॥ १४० ॥
केचिदाचार्याः शङ्करस्वामिप्रभृतयः इन्द्रियजत्वाद्, आदिशब्दाद्-
मानसत्वानुभवाकारप्रवृत्तवादेः, हेतोः प्रत्यक्षबुद्धिमकल्पनां बालधीवदाहुः,
दृष्टान्तसिद्धयर्थम् । बालस्याविकल्पे विकल्पाभावे च संकेतमन्दतां हेतु-
माहुः । वाच्यवाचकयोजना हि विकल्पः, सा च संकेतपूर्विका, तदभावाद्
बालस्य कल्पनाभावः ॥ १४१ ॥
तेषामेवंवादिनां मते बालानां प्रत्यक्षमेव ज्ञानं स्यात्, न विचारकम् । किं
कारणम् ? अविकल्पनात् । भवतु, को दोष इति चेत् ? आह—संकेतोपाय-
स्य विचारस्य विगमात् बालानां पश्चादपि स सङ्केतो न भवेत् । तदभावाद्
विकल्पाभावश्च ॥ १४२ ॥
जन्मान्तरागतं व्युत्पन्नं संकेतं मनोऽस्ति बालानाम्, तेन संकेतः तेषां
मतश्चेत् ? एवं सतीन्द्रियजेऽपि ज्ञाने स्यात् कल्पना; तन्निवर्तकहेत्वभिधानात्,
ततो दृष्टान्तासिद्धिरेव१ । इदमिन्द्रियजत्वादि ईदृशं निषेध्येन सहासिद्धविरोधं
शेषवच्चोक्तम् ॥ १४३ ॥
अथान्येन लिङ्गेनाव्यभिचारिणा बालज्ञानमविकल्पनं प्रसाध्य दृष्टान्तीक्रियते,
तदा यदेवाव्यभिचारि बाले बालस्येन्द्रियज्ञाने साधनम्, तदेवात्र व्युत्पन्न-
संकेतानामिन्द्रियज्ञानेऽपि कथ्यताम्, किमिन्द्रियजत्वादिनोपन्यस्तेन; व्युत्पन्ना-
१. दृष्टासिद्धिरेव—रा० ।