सामग्री पर जाएँ
सर्वकोश
प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)

प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)

Pramanavarttika of Acharya Dharmakirti with Manorathanandin Commentary

आचार्य धर्मकीर्ति (वृत्ति: मनोरथनन्दी, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished532 पृष्ठ

पृष्ठ 123, कुल 532 में से

संदर्भ में पढ़ें
पृष्ठ 123

प्रमाणसिद्धिः ९७
प्रमाणतत्त्वसिद्धयर्थम्;
अनुमानेऽप्यवारणात् ।
प्रयोगदर्शनाद् वाऽस्य; 'यत् किञ्चिदुदयात्मकम्॥ २८६॥
निरोधधर्मकं सर्वं तद्' इत्यादावनेकधा ।
अनुमानाश्रयो लिङ्गमविनाभावलक्षणम् ॥
व्याप्तिप्रदर्शनाद्धेतोः साध्येनोक्तञ्च तत् स्फुटम् ॥ २८७॥
कृता । तस्य भगवत उपदेशतः प्रमाणस्य तत्त्वं लक्षणम्, तत्सिद्धयर्थं
भगवद्देशनायाः प्रमाणविनिश्चयः, नोत्प्रेक्षामात्रेणेत्याख्यातुमित्यर्थः ।
ननु "नीलसमङ्गी पुरुषो नीलं जानाति, नो तु नीलम्" (वि० का० पा०)
इति ब्रुवता भगवता प्रत्यक्षं दर्शितम्, अनुमानं नोक्तम्, कथमागमात् प्रत्ये-
तव्यम् ? इत्याह—अनुमानेऽप्यवारणादिष्टेर्दर्शिता। "शून्याः परप्रवादाः"
( ) इत्यादिना शब्दादेरेव निषेधात् । प्रयोगस्य परार्थानुमानरूपस्य
दर्शनाद्वाऽऽगमेऽस्यानुमानस्य निर्देशः कृत एव भगवता ।
तमेव प्रयोगमाह—"यत्किञ्चिदुदयात्मकं तत्सर्वं निरोधधर्मकम्" (म० व० १.
७.१६) इत्यादावागमवाक्येऽनेकधा स्वभावादिलिङ्गनमनेकप्रकारमनुमानं दृश्यते ।
कथं पुनरनेनानुमानमुक्तम् ? इत्याह—अनुमानस्याश्रयः कारणं लिङ्गं
वक्तव्यम्; अनुमाननिर्देशार्थमन्यथाऽशक्यत्वात् । किं लक्षणम् ? इत्याह—
अविनाभावः साध्याव्यभिचारित्वम्, तल्लक्षणं यस्य तत्तथा ।
स चाविनाभावो लिङ्गं लक्षणं हेतोरुदयधर्मकत्वस्य साध्येन निरोधधर्म-
कत्वेन व्याप्तेः प्रदर्शनात् "यत्किञ्चिदुदयधर्मकं तत् सर्वं निरोधधर्मकम्"
( म. व. १. ७. १६ ) इत्यादिना स्फुटः प्रव्यक्तो दर्शित इत्यनुमानप्रामाण्य-
निर्देशोऽपि भगवदुपज्ञमेव । तदेवं भगवानेव प्रमाणभूतस्तायी मुमुक्षुभिरुपास्यो
नेतर इति दर्शनार्थमाचार्येण तस्य स्तुतिरुक्तेति युक्तम् ॥ २८५-२८७ ॥
आचार्यश्रीमनोरथनन्दिकृतायां प्रमाणवार्त्तिकवृत्तौ प्रथमः परिच्छेदः
प्र० वा० : ७