सामग्री पर जाएँ
सर्वकोश
प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)

प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)

Pramanavarttika of Acharya Dharmakirti with Manorathanandin Commentary

आचार्य धर्मकीर्ति (वृत्ति: मनोरथनन्दी, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished532 पृष्ठ

पृष्ठ 121, कुल 532 में से

संदर्भ में पढ़ें
पृष्ठ 121

प्रमाणसिद्धिः ९५
तायात् तत्त्वस्थिराशेषज्ञानसाधनम् ॥ २८२ ॥
बोधार्थत्वाद् गमेः;
बाह्यशैक्षाशैक्षाधिकस्ततः ।
परार्थज्ञानघटनं तस्मात् तच्छासनं ततः ॥ २८३ ॥
योनिशोमनस्कार एव दोषहेतुः, न कर्म; ततः सत्यपि कर्मण्युन्मूलितात्मदृष्टयो
निर्दोषा निर्वान्ति । निर्वाणञ्च दुःखनिरोधलक्षणम् । दुःखं परिज्ञाय तत्समुदयं
मार्गभावनया प्रहाय प्राप्यते, नान्यथेति चतुःसत्यप्रकाशक एव मुमुक्षूणामुपास्य
इति तायित्वमुक्तम् ।
तदेवमनुलोमतः 'प्रमाणभूताय' इत्यादि पञ्च पदानि व्याख्याय प्रति-
लोमतो लिङ्गलैङ्गिकत्वं दर्शयन्नाह—तायाच्चतुःसत्यप्रकाशलक्षणात् लिङ्गात् तत्त्व-
स्थिराशेषविशेषज्ञानस्य त्रिगुणस्य सुगतत्वस्य साधनं सिद्धिः । तत्त्वस्य
क्षणिकनैरात्म्यस्य ज्ञानात् प्रशस्तम् ॥ २८२ ॥
अपुनरावृत्त्या च स्थिरं निःशेषं विशेषज्ञानं त्रिगुणं सुगतत्वं बोधार्थत्वाद्
गमेर्गतशब्दः प्रकृतिः । न हि संवादिनोऽसाक्षात्कृतस्यार्थस्य उपदेशः शक्य-
क्रियः । न चानुमानेन ज्ञातस्योपदेश इति युक्तमुक्तम्; क्षणिकत्वनैरात्म्यादि-
विषयस्यानुमानस्य भगवदुपदेशमन्तरेणोत्पत्तिबीजाभावात् अगृहीतोपदेशानाम-
भावात् । न च नित्यपरोक्षस्यार्थस्य स्थैर्यादिविपर्ययाध्यवसायिनः कश्चिन्निश्चयो-
ऽस्ति । तस्मात् प्रमाणसंवादिनः परोक्षार्थस्योपदेशस्तत्साक्षात्कारपूर्वक एवेति युक्तं
तायित्वात् सुगतत्वानुमानं भगवतः । स च भगवान् तायः सुगतत्वात् त्रिगुणात्
गुणानुक्रमेण ।
बाह्यशैक्षाशैक्षेभ्योऽधिकः ये लौकिकभावनामार्गेण वीतरागा बाह्या अतत्त्व-
दर्शिनस्तेभ्यः तत्त्वदर्शित्वादधिकः । ये शैक्षाः अबाह्याः परिहाणिधर्माणस्तेभ्यो-
ऽपुनरावृत्त्या, ये चाशैक्षाः श्रावका अप्रहीणक्लेशवासना असाक्षात्कृतसर्वाकार-
वस्तवस्तेभ्यो निःशेषप्रतीत्या । ( ततः ) तस्मात् सुगतत्वात् शासनं शास्तृत्व-
मनुमीयते ।
किं पुनः शासनम् ? इत्याह—तच्छासनं कारणे कार्योपचारात् परार्थं