प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)
Pramanavarttika of Acharya Dharmakirti with Manorathanandin Commentary
आचार्य धर्मकीर्ति (वृत्ति: मनोरथनन्दी, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 120, कुल 532 में से
संदर्भ में पढ़ें९४ प्रमाणवार्त्तिके
यदिष्टमपरं क्लेशात् तत् तपः क्लेश एव चेत् ॥ २७९ ॥
तत् कर्मफलमित्यस्मान्न शक्तेः सङ्करादिकम् ।
उत्पत्सुदोषनिर्घाताद् येऽपि दोषविरोधिनः ॥ २८० ॥
तज्जे कर्मणि शक्ताः स्युः कृतिहानिः कथं भवेत् !
दोषा न कर्मणो दुष्टः करोति न विपर्ययात् ॥ २८१ ॥
मिथ्याविकल्पेन विना नाभिलाषः सुखादपि ।
क्षीयते, कर्मक्षयाच्च मुक्तिः ? अत्राह—हीयेताशेषमक्लेशलेशतः । यदि
तपसा कर्मक्षयोऽशेषं कर्म हीयेताक्लेशतो विनैव केशोल्लुञ्चनादिदुःखतः कर्मणः
क्षीणत्वाद् । यथा नारकादि दुःखं न भवति तथाऽल्पीयोऽपि न स्यात् । शक्ति-
साङ्कर्येऽपि लेशतः सन्तापक्लेशात् केवलात् कर्म हीयेत । न दुःखान्तरानुबन्धी
संसारप्रबन्धः तपस्विनः स्यात् ।
तपसः शक्त्या शक्तिसङ्करसंक्षयश्च तदा वक्तुं शक्यो यदि स्यादिष्टं
क्लेशादपरमन्यत् तपः, नान्यथा । क्लेश एव चेत् तत् तपः । क्लेशरूपं
तपःकर्मफलं ( तपोऽवशेषितस्य कर्मणः फलमिष्टम् ) इत्यस्मात् कर्मफल-
भूतात् तपसः शक्तेः संकरादिकं न युक्तम् । आदिशब्दात् संक्षयश्च । तस्य
मते तु—उत्पित्सोस्तृष्णादेर्दोषस्य निर्घातात् येऽपि दोषविरोधिनो
नैरात्म्याभ्यासादय उपायाः, तज्जे तृष्णादिदोषप्रभवे कर्मणि कारणवारणद्वारेण
व्याहन्तुं शक्ता न; प्राग्जनिते तस्योत्पन्नत्वात् । अतः कृतस्य कर्मणो हानिः
कथं भवेत् !
ननु यथा दोषेभ्यः कर्म तथा कर्मणो दोषाश्च भवन्तीत्यक्षीणकर्मणो न
स्यात् मुक्तिः ? इत्याह—दोषा न कर्मणो भवन्ति; किन्तु दोषैर्दुष्टः प्राणी
कर्मकरो भवति, न विपर्ययात् नादुष्टः कर्म करोति, नैरात्म्यदर्शिनस्तृष्णाभावात्
क्वचित् प्रवृत्तिनिवृत्त्यसम्भवात् ॥ २७८-२८१ ॥
ननु कर्मणः शुभात् सुखम्, सुखादभिलाषः, अभिलाषाच्च राग इति
कर्मणो दोषजन्म ? इत्याह—यश्च सुखादप्यभिलाषो रागहेतुर्दृश्यते, स च
मिथ्याविकल्पेन विना स्थिरसुखमदीयाहङ्कारविकल्पनमन्तरेण न भवतीत्य-