सामग्री पर जाएँ
सर्वकोश
प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)

प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)

Pramanavarttika of Acharya Dharmakirti with Manorathanandin Commentary

आचार्य धर्मकीर्ति (वृत्ति: मनोरथनन्दी, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished532 पृष्ठ

पृष्ठ 119, कुल 532 में से

संदर्भ में पढ़ें
पृष्ठ 119

प्रमाणसिद्धिः ९३
अशक्यत्वाच्च तृष्णायां स्थितायां पुनरुद्भवात् ।
द्वयक्षयार्थं यत्ने च व्यर्थः कर्मक्षये श्रमः ॥ २७६ ॥
फलवैचित्र्यदृष्टेश्च शक्तिभेदोऽनुमीयते ।
कर्मणां तापसंक्लेशात् नैकरूपात् ततः क्षयः ॥ २७७ ॥
फलं कथञ्चित् तज्जन्यमल्पं स्यान्न विजातिमत् ।
अथापि तपसः शक्त्या शक्तिसङ्करसंक्षयैः ॥ २७८ ॥
क्लेशात् कुतश्चिद्धीयेताशेषमक्लेशलेशतः ।
अशक्यत्वाच्च । सत्यपि वा विपक्षे तदभ्यासाद् देहकर्मनिवृत्तिरशक्य-
क्रिया । तृष्णायां स्थितायां तत्प्रचितस्यात्मग्रहवतो गर्भस्थानपरिग्रहे सति
पुनरुद्भवात् देहस्य शरीरिणश्च तृष्णयैव प्रवृत्त्या सर्वत्र शुभाशुभप्रवृत्तेश्च ।
एवं तर्हि तृष्णा कर्म च क्षपयितव्यं मुमुक्षुणा ? इत्याह—द्वयक्षयार्थं यत्ने
च क्रियमाणे कर्मक्षये व्यर्थः श्रमः । तृष्णाक्षयमात्रान्जन्माभावसिद्धेः सदपि
कर्मानुपयुक्तमित्यलं तत्क्षयप्रयासेन ! न च कर्मक्षयः प्रतिपक्षाभावात् शक्य
इत्युक्तम् । सन्तापक्लेशोपभोगात् पूर्वार्जितकर्मक्षयोऽपरस्य चाकारणम्, ततो
मुक्तिरित्यपि मोहः१ ॥ २७६ ॥
तथा हि—कर्मणां फलवैचित्र्यस्य नानागत्युपभोग्यानेकविधोपकारण-
साध्यविविधसुखदुःखोपभोगप्रकारस्य दृष्टेश्च शक्तिभेदः सामर्थ्यनानात्वमनु-
मीयते, ततो२ नानाप्रकारफलजननसामर्थ्यात् कारणादेकरूपात् फलात् ताप-
संक्लेशान्न कर्मणां क्षयः ॥ २७७ ॥
सर्वेषां कर्मणां ताप एव फलमिति चेत् ? तस्य कर्मणो जन्यं फलं
कथञ्चित् जुगुप्सादिभिरल्पं स्यात्, न तु विजातिमत् । दानं दत्त्वा हिंसित्वा
वा जुगुप्सुस्तयोः फलमल्पीयोऽनुभवति । कारणता न वा, अपादानात् । न तु
शुभस्य दुःखमशुभस्य वा सुखं फलं भवितुमर्हति । अथापि तपसः शक्त्या
शक्तिसङ्करेण तापक्लेशमात्रफलेन तानि हीयन्ते । तपःशक्त्या कर्मणां संक्षयेण
वा जन्माभावः, यच्च किञ्चिदवशिष्टं तत् क्लेशात् कुतश्चित् केशोल्लुञ्चनादेः
१ जैनानामिति शेषः । २. अतो—रा० ।