सामग्री पर जाएँ
सर्वकोश
प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)

प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)

Pramanavarttika of Acharya Dharmakirti with Manorathanandin Commentary

आचार्य धर्मकीर्ति (वृत्ति: मनोरथनन्दी, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished532 पृष्ठ

पृष्ठ 116, कुल 532 में से

संदर्भ में पढ़ें
पृष्ठ 116

९० प्रमाणवार्त्तिके
दृष्टं बुद्धेर्न चान्यस्य सन्ति तानि नयन्ति किम् ।
धारणप्रेरणक्षोभनिरोधाश्चेतनावशः ॥ २६६ ॥
न स्युस्तेषामसामर्थ्ये तस्य दीक्षाद्यनन्तरम् ।
अथ बुद्धेस्तदाभावान्न स्युः सन्धीयते मलैः ॥ २६७ ॥
बुद्धेस्तेषामसामर्थ्यं जीवतोऽपि स्युरक्षमाः ।
निर्ह्रासातिशयात् पुष्टौ प्रतिपक्षस्वपक्षयोः ॥ २६८ ॥
दोषाः स्वबीजसन्ताना दीक्षितेऽप्यनिवारिताः ।
नित्यस्य निरपेक्षत्वात् क्रमोत्पत्तिर्विरुध्यते ॥ २६९ ॥
दृष्टम्, नान्यस्य संस्काररूपस्यादृष्टस्य; तदन्वयव्यतिरेकानुविधानानुपलम्भात् ।
सा बुद्धिश्चास्ति देशान्तरसम्बद्धकरणजनिका दीक्षितस्य, तत् किं तानि करणानि
गर्भस्थानं नयन्ति गच्छन्ति, हेत्ववैकल्यात् भवितव्यम् ॥ २६४-२६६ ॥
गमनेनावश्यं दीक्षयोपहता बुद्धिर्देशान्तरं नेतुमिन्द्रियाण्यशक्ता चेत् ?
नन्वेवं तस्य मुमुक्षोर्दीक्षानन्तरं बुद्धेरसामर्थ्ये तेषामिन्द्रियाणां स्वविषये व्यव-
स्थापनं धारणम्, तत्रायोजनं प्रेरणम्, क्षोभो विकारः, स्वविषयान्निवर्तनं
निरोधः, ते बुद्धिनिबन्धनवृत्तयो न स्युः ।
अथ बुद्धेस्तदा मरणकालेऽभावान्न स्युः धारणप्रेरणादयः ?
अत्राह—सन्धीयते जन्यते मलैर्मिथ्याज्ञानैर्मिथ्याज्ञानात्मस्नेहादिभिर्बुद्धि-
र्मरणसमयेऽपीति कुतो बुद्धयभावः ॥ २६७ ॥
अथ मला अपि दीक्षयोपहतसामर्थ्या न बुद्धिं सन्दधति, तदा तेषां
मलानामसामर्थ्ये स्वीक्रियमाणे जीवतोऽपि दीक्षितस्य मला बुद्धिसन्धानं प्रत्य-
क्षमाः स्युः । दीक्षा मलानां बाधिकेत्यपि मिथ्या । तथा प्रतिपक्षस्य नैरात्म्य-
भावनायाः स्वपक्षस्यायोनिशोमनस्कारस्याभ्यासात् पुष्टौ सत्यां दोषाणां यथाक्रमं
निर्ह्रासादपचयात्, अतिशयादभिवृद्धेर्दोषाः स्वकीयाद् बीजात् तुल्यजातीय-
कारणात् सन्तानो येषां ते दीक्षितेऽपि दोषबीजे परिपोषवत्यनिवारिताः ।
स्यादेतद्, आत्मनोऽपि गर्भगतकरणादिजनने व्यापारः, स एव दीक्षया
निरुद्ध इति न पुनर्जन्म ? इत्याह—नित्यस्यानुपकार्यतया निरपेक्षत्वात्