सामग्री पर जाएँ
सर्वकोश
प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)

प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)

Pramanavarttika of Acharya Dharmakirti with Manorathanandin Commentary

आचार्य धर्मकीर्ति (वृत्ति: मनोरथनन्दी, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished532 पृष्ठ

पृष्ठ 115, कुल 532 में से

संदर्भ में पढ़ें
पृष्ठ 115

प्रमाणसिद्धिः ८९
मिथ्याज्ञानतदुद्भूततर्षसञ्चेतनावशात् ॥ २६२ ॥
हीनस्थानगतिर्जन्म ततस्तच्छिन्न जायते ।
तयोरेव हि सामर्थ्यं जातौ तन्मात्रभावतः ॥ २६३ ॥
ते चेतने स्वयं कर्मेत्यखण्डं जन्मकारणम् ।
'गतिप्रतीत्योः करणान्याश्रयास्तान्यदृष्टतः ॥ २६४ ॥
अदृष्टनाशादगतिः तत्संस्कारो न चेतना' ?
सामर्थ्यं करणोत्पत्तेर्भावाभावानुवृत्तितः ॥ २६५ ॥
चेत् ? न पापं गुरु; अमूर्त्तितो मूर्त्तत्वाभावात् । मूर्त्तधर्मो हि गौरवं कथं
पापस्यामूर्त्तस्य स्यात् !
ननु त्वत्पक्षेऽपि नैरात्म्यदर्शने भूतेऽपि कस्मान्न जन्म ? इत्याह—
मिथ्याज्ञानं दुःखे विपर्यासमतिः, तदुद्भूतस्तर्षो मिथ्याज्ञानप्रभवा तृष्णा,
ताभ्यां सम्प्रयुक्ते चेतने, तद्वशाद् या हीनस्थानगतिस्तज्जन्मेत्युक्तम् ।
अतः तच्छिद् अज्ञानतृष्णाच्छेदको नैरात्म्यदर्शी न जायते; कारणाभावात् ।
तदेवाह—तयोरेवाज्ञानतृष्णयोर्हि सामर्थ्यं जातौ जन्मनिमित्तं तन्मा-
त्रेण भावतः । ते च दीक्षितस्यापि स्त इति स जायते ॥ २५८-२६३ ॥
ननु कर्मापि जन्मकारणमिष्टम्, तत्कथमज्ञानतृष्णे एवोक्ते ? इत्याह—ते
चेतने मिथ्याज्ञानतद्भूततर्षसञ्चेतने स्वयमात्मना पूर्वशुभाशुभकर्मसंस्कारसहाये
कर्म कर्मस्वभावे इत्यखण्डमन्यूनं जन्मकारणमुक्तमिति न विरोधः ।
स्यादेतद्—गतिप्रतीत्योरभिमतदेशगमनस्य ज्ञानस्य च करणानी-
न्द्रियाणि आश्रयः कारणम्; इन्द्रियेभ्य उत्पन्नेन ज्ञानेन विषयं परिच्छिद्य
प्रवृत्तेः । तानीन्द्रियाणि चादृष्टतः शुभादिलक्षणाद् दीक्षया चादृष्टनाशात्
तत्कार्याणां कारणानामनुत्पत्तेर्विषयस्य परिच्छेदतृष्णयोरभावात्, अगतिर्जन्मस्थान
इति नास्ति पुनर्भवो दीक्षितस्य । तददृष्टञ्चात्मसंस्कारो न चेतना स्यात्
दीक्षितस्यापि सास्तीति जन्मापि स्यात् ?
अत्राह—बुद्धेर्भावाभावानुवृत्तितोऽन्वयव्यतिरेकानुवृत्त्या करणानामेक-
स्माद् देशादपरदेशसम्बद्धानामुत्पत्तेः कारणात् सामर्थ्यं बुद्धेरिन्द्रियजननं प्रति