प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)
Prabodhachandrodaya of Krishnamishra with Commentary
कृष्णमिश्र यति द्वारा
पृष्ठ 96, कुल 274 में से
संदर्भ में पढ़ें५८ प्रबोधचन्द्रोदयम्
( पुरुषं प्रति वदति )
जाल्म, गच्छ । कामं सत्वरमुपेत्यादेशमस्माकं प्रतिपादय । तथा
दुराशयो ऽधर्म इत्यस्माभिरवगतम् । तदस्मिन्मुहूर्तमपि न विश्वसितव्यम् ।
दृढं बद्ध्वा धारयितव्य इति ।
पुरुषः- यद्देव आज्ञापयति । ( जं देवो आणवेदि )
( इति निष्क्रान्तः )
महामोहः-( स्वगतं विचिन्त्य ) शान्तेः कोऽभ्युपायः । अथवा
अलमुपायान्तरेण । क्रोधलोभावेव तावदत्र पर्याप्तौ । ( प्रकाशम् ) कः
कोऽत्र भोः ।
( प्रविश्य दौवारिकः )
दौवारिकः- आज्ञापयतु देवः ।
जाल्म-मूर्ख, असमीक्ष्यकारिन्, तथात्वं चास्य स्थितिमविचार्यैवागमनात्
ल्पनीयम् । सत्वरम्-शीघ्रम् ।
उपेत्य-प्राप्य । प्रतिपादय-कथय । दुराशयः-दुष्टाभिप्रायः । धर्मस्य वैराग्यो-
त्पादकतया कामविमुखत्वेन दुष्टत्वमुक्तम् । अस्मिन्-धर्मे । मुहूर्त्तम्-क्षणम् । दृढं
द्ध्वा-निपुणं संयम्य । बन्धनञ्च धर्मस्य काम्यानि फलान्युद्दिश्य विधीयमानत्वमेव,
थाकरणेन धर्मो वैराग्यादिभिः कृतमुपजापं न मन्येतेति भावः । शान्तेः कोऽभ्यु-
पायः-शान्तेर्निराकरणाय कीदृशः प्रयत्नः करणीय इति भावः । उपायान्तरेण-
न्येन प्रयासेन, पर्याप्तौ-दक्षौ ।
( पुरुषसे कहता है )
मूर्ख, जाओ । जल्दी जाकर हमारा आदेश सुना दो । हमने जान लिया कि धर्म दुष्ट
उस पर एक क्षणके लिये भी विश्वास मत करना । उसे कसकर बांधे रहो ।
पुरुष-महाराजकी जैसी आज्ञा ।
( जाता है )
महामोह-( स्वगत, सोचकर ) शान्तिका क्या प्रतीकार ? अथवा-प्रतीकारकी
चिन्ता है, क्रोध लोभ ये दोनों इस कामके लिये काफी है । ( प्रकाश ) कोई है ?
( दौवारिकका प्रवेश )
दौवारिक-महाराज आदेश करें ।