सामग्री पर जाएँ
सर्वकोश
प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)

प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)

Prabodhachandrodaya of Krishnamishra with Commentary

कृष्णमिश्र यति द्वारा

DevanagariHindipublished274 पृष्ठ

पृष्ठ 86, कुल 274 में से

संदर्भ में पढ़ें
पृष्ठ 86

६८ प्रबोधचन्द्रोदयम्
भिक्षोपवासनियमार्कमरीचिदाहै-
र्देहोपशोषणविधिः कुधियां क्व चैषः ॥ २२ ॥
शिष्यः—आचार्य, एवं खलु तैर्थिका आलपन्ति यद्दुःखमिश्रितं
संसारसुखं परिहरणीयमिति । (आचालिअ, एवं खु तित्थिया आलवन्ति जं
दुक्खमिसिदं संसालसुहं पलिहलणीअं त्ति )
चार्वाकः—(विहस्य) आः, दुर्बुद्धिविलसितमिदं नरपशूनाम् ।
त्याज्यं सुखं विषयसंगमजन्म पुंसां
दुःखोपसृष्टमिति मूर्खविचारणैषा ।
आश्लेषः क्व कुत्र ? भिक्षा भैक्षचर्यम्, उपवासः उपोषणम्, नियमाः चान्द्रायणा-
दयः, अर्कमरीचिदाहः पञ्चाग्निव्रतादयः सूर्यनिविष्टदृष्टिता वा, तैः, कुधियाम् नष्ट-
मतीनाम् एषः देहोपशोषणविधिः कायक्लेशकरं कर्म च क्व ? नोभयोर्मनागपि
सादृश्यमस्तीति भावः । दृढमङ्गनामाश्लिष्य तदुच्चकुचसम्पर्कजन्यो आनन्द क्व ?
क्व चायं कायक्लेशकरो व्रतादिनियमो मूर्खैरेभिरुपदिष्टः ? तदेतयोस्तुलनायां प्रागुक्त-
मेव स्वादुतया प्राशस्त्यं भजमानमत एव चादरणीयमिति बोध्यम् । वसन्ततिलकं
वृत्तम्, प्रागुक्तं च तल्लक्षणम् ॥ २२ ॥
दुःखमिश्रितम्-दुःखसङ्कीर्णम्, विषसंपृक्तमिष्टान्नवत् सांसारिकसुखमपि परत्र-
दुःखसङ्कीर्णतया त्याज्यमिति भावः । दुर्बुद्धिविलसितम्-बुद्धिदोषविजृम्भितम् ।
नरपशूनाम्-पशुतुल्यनराणाम्, तेषां पशुत्वं च हेयोपादेयार्थपरिज्ञानाभावात् ,
तथा त्वं चादेयमिह सुखं परित्यज्य मिथ्याभूतपरत्रसुखविषये प्रवृत्तिमत्त्वात् ॥
त्याज्यमिति० विषयसङ्गमजन्म-विषयाः स्रक्चन्दनवनिताद्याः । पदार्थाः
तेषाम् सङ्गम उपभोगस्ततो जन्म प्रभवः यस्य तादृशं वैषयिकम् सुखम् आनन्दः
दुःखोपसृष्टम् तदपगमादिकारणवशाज्जायमानेन कष्टेन युक्तम् अतः पुंसाम् त्याज्यम्
अनुपादेयम् इति एषा एवं प्रकारा मूर्खविचारणाऽज्ञानजनधारणा । 'भोः' इदं
आदृत भिक्षा उपवास नियम सूर्यकिरणदाह आदिसे देहको कष्ट देना कहाँ ? ॥ २२ ॥
शिष्य—तैर्थिकोंका कहना है कि दुःखमिश्रित होनेके कारण संसारिक सुख
परिहरणीय है ।
चार्वाक—(हंसकर) आः ! यह तो उन नरपशुओंकी दुर्बुद्धिका विलास है ।
विषय संगमसे होनेवाला सुख दुःखमिश्रित होनेके कारण त्याज्य है यह मूर्खोंका