सामग्री पर जाएँ
सर्वकोश
प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)

प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)

Prabodhachandrodaya of Krishnamishra with Commentary

कृष्णमिश्र यति द्वारा

DevanagariHindipublished274 पृष्ठ

पृष्ठ 85, कुल 274 में से

संदर्भ में पढ़ें
पृष्ठ 85

द्वितीयोऽङ्कः ६७
शिष्यः-आचार्य, यद्येष एव परमार्थः पुरुषस्य यत्खाद्यते पीयते ।
तर्हि किमित्येतैस्तीर्थैः संसारसौख्यं परिहृत्यात्मा घोरघोरतरैः पराक-
सान्तपन-षष्ठकालाशनप्रभृतिभिर्दुःखैः कस्मात् खेद्यते ? (आवालिअ, जई
एसो जेव्व पल्मत्थो पुलिसस्स जं खज्जए पिज्जए । ता किति एदिहिं तित्थेहि
संसालसुहं पलिहिलिय आप्पा घोलघोलतलेहिं पलाअ-सांतवन-सट्ठका आप्पासनप्प-
हुदिहिं दुःखेहिं कुदो खविज्जदि )
चार्वाकः-धूर्तप्रणीतागमप्रतारितानामादामोदकैरियं वृत्तिर्मूर्खाणाम् ।
पश्य पश्य-
आलिङ्गनं भुजनिपीडितबाहुमूलं
भुग्नोन्नतस्तनमनोहरमायताक्ष्याः ।
परमार्थः-सिद्धान्तः । तैर्थिकैः-तीर्थविश्वासिभिः । संसारसौख्यम्-अङ्गनाऽऽ-
लिङ्गादिजन्यं वैषयिकं सुखम् । परिहृत्य-विहाय । घोरघोरतरैः-अतिकठोरः ।
पराकः-स्वनामख्यातः । सान्तपनम्-तदाख्यया प्रसिद्धम् । षष्ठकालाशनम्-षष्ठ्यां
सन्ध्यायाम् भोजनम्, इदमप्येकं व्रतम् । खेद्यते-कष्टम्प्राप्यते । यदि खाद्यते
पीयत इत्येव सिद्धान्तसिद्धोऽर्थस्तदाऽलमात्मानमेभिः पराकादिभिरायासं जनयि-
ष्येति भावः ।
धूर्त्तप्रणीतागमप्रतारितानाम्-वञ्चकजननिर्मितशास्त्रवञ्चितानाम् । आशामो-
दकैः-कल्पनामात्रस्थितैर्लड्डुकैः । इमे हि मूर्खा वास्तविकं भौतिकं सुखं विहाय
भाविस्वर्गादिकल्पनिकं वञ्चकप्रणीतशास्त्रप्रमापितं सुखं कामयमानाः कष्टानि
सहन्ते, सोऽयमेषां प्रयासो मनःकल्पितमोदकैस्तृप्तिरिव मूलं न स्पृशतीति तात्पर्यम् ।
आलिङ्गनमिति० भुजनिपीडितबाहुमूलम् भुजाभ्यां नायकबाहुभ्याम् निपीडितम्
दृढं धृतं यद्बाह्वोर्मूलमादिभागः यत्र तथा अत एव भुग्नोन्नतस्तनम् नत्रीभवदु-
च्छ्रितकुचम् अतश्च मनोहरम् हृदयम् आयताक्ष्याः विशाललोचनायाः आलिङ्गनम्
शिष्य-आचार्य, यदि खाना-पीना ही पुरुषोंके लिये परमार्थ है तो फिर ससार
सुखको छोड़कर इन तीर्थोंमें श्रमणसे तथा घोरतर पराक सान्तपन षष्ठकालाशन प्रभृति
दुःखोंसे क्यों आत्माको तकलीफ देते हैं ।
चार्वाक-धूर्त्तों द्वारा निर्मित आगमसे वञ्चित मूर्खोंकी यह आशामोदक वृत्ति है । देखो-
बाहुसे बाहुमूलको दबाकर उन्नतस्तनी ललनाओंका आलिङ्गन कहाँ और मूर्खों द्वारा