प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)
Prabodhachandrodaya of Krishnamishra with Commentary
कृष्णमिश्र यति द्वारा
पृष्ठ 87, कुल 274 में से
संदर्भ में पढ़ेंद्वितीयोऽङ्कः ६६
व्रीहीञ्जिहासति सितोत्तमतण्डुलाढ्यान्
को नाम भोस्तुषकणोपहितान्हितार्थी ॥ २३ ॥
महामोहः—अये, चिरेण खलु प्रमाणवन्ति वचनानि कर्णसुखमुप-
जनयन्ति । (विलोक्य, सानन्दम्) हन्त, प्रियसृहन्मे चार्वाकः ।
चार्वाकः—(विलोक्य) एष महाराजो महामोहः । (उपसृत्य) जयतु
जयतु महाराजः । एष चार्वाकः प्रणमति ।
महामोहः—चार्वाक, स्वागतं ते । इहोपविश्यताम् ।
चार्वाकः—(उपविश्य) एष कलेः साष्टाङ्गं प्रणामः ।
महामोहः—अये कले, भद्रमव्याहतम् ।
शिष्यसम्बोधनम् , को नाम हितार्थी अभिलषितेच्छुः श्रेयःकामयमानः सितोत्तम-
तण्डुलाढ्यान् श्वेतोत्तमतण्डुलयुक्तान् व्रीहीन् धान्यानि तुषकणोपहितान् तुषयुक्तान्
जिहासति त्यक्तुमिच्छति । यथातुषपूर्णस्य व्रीहिराशेः सितोत्तमतण्डुलग्रहतया
हितार्थिनो ग्रहणमेव कुर्वन्ति न त्यागं, तथैवांशिकक्लेशपूर्णस्यापि सांसारिकसुख-
स्यादर एव यतनीयं न त्याग इति, तत्त्यागप्रवृत्तिश्चोपादेयत्यागप्रवृत्तिरूपतया कर्तु-
र्मूखतां गमयेदिति भावः । निदर्शनाऽलङ्कारः । पुंसामिति कर्त्तरि षष्ठी, त्याज्यमिति
कृत्यप्रत्यययोगात् । तू त्तमनुपदमेवोक्तम् ॥ २३ ॥
चिरेण-बहोः कालात्परतः । प्रमाणवन्ति-युक्तियुक्तानि । कर्णसुखमुपजनयन्ति=
श्रवणं तर्पयन्ति । प्रियसृहत्-मित्रम् ।
स्वागतम्-सत्कारः । इह-अत्र । उपविश्यताम्-स्थीयताम् , आस्यतामिति वा ।
कलेः-कलियुगस्य । साष्टाङ्गः-अष्टाङ्गेनतियुक्तः ।
भद्रमव्याहतम्-कुशलमक्षतम्, त्वदीये कुशले तु कापि क्षतिर्नास्तीति प्रश्नाशयः ।
विचार है। क्या हित चाहने वाला व्यक्ति भूसासे मिलित होनेके कारण सुन्दर चावलसे
युक्त धानको छोड़ देता है ? ॥ २३ ॥
महामोह—अरे, बहुत दिनोंके बाद आज प्रमाणयुक्त बातें कानोंको सुख प्रदान कर
रही है । (देखकर प्रसन्नतासे) अहा ! हमारा मित्र चार्वाक आरहा है ।
चार्वाक—(देखकर) ये महाराज महामोह है । (समीप जाकर) जय हो महा-
राजकी । यह चार्वाक प्रणाम करता है ।
महामोह—चार्वाक, आओ, स्वागत है । यहाँ बैठो ।
चार्वाक—यह कलि आपको साष्टाङ्ग प्रणाम करता है ।
महामोह—कले, सब कुशल तो है ?