प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)
Prabodhachandrodaya of Krishnamishra with Commentary
कृष्णमिश्र यति द्वारा
पृष्ठ 84, कुल 274 में से
संदर्भ में पढ़ें६६ प्रबोधचन्द्रोदयम्
ततो दावाग्निदग्धानां फलं स्याद्भूरि भूरुहाम् ॥ १९ ॥
अपि च—
निहतस्य पशोर्यज्ञे स्वर्गप्राप्तिर्यदीष्यते ।
स्वपिता यजमानेन तत्र कस्मान्न हन्यते ॥ २० ॥
अपि च—
मृतानामपि जन्तूनां श्राद्धं चेत्तृप्तिकारणम् ।
निर्वाणस्य प्रदीपस्य स्नेहः संवर्धयेच्छिखाम् ॥ २१ ॥
ताम् यदि स्वर्गः स्यात् ततः तर्हि दावाग्निदग्धानाम् वनवह्निभस्मीकृतानाम् भूरु-
हाम् वृक्षाणाम् भूरि बहु फलम् स्यात् । प्रयोजकाभावसाम्येऽपि यदि प्रध्वस्ता-
त्कर्मणः फलोदयस्वीकारे दग्धात् पादपात् फलोत्पत्तिरपि स्वीकर्त्तव्या स्यादिति
तात्पर्यम् ॥ १९ ॥
निहतस्येति० यज्ञे ज्योतिष्टोमादियागे निहतस्य हिंसाकर्मतां गमितस्य पशोः
छागादेः यदि स्वर्गप्राप्तिः स्वर्गाख्यकल्पितसुखातिशयावाप्तिः इष्यते ‘वैदिकी हिंसा
हिंसा न भवति’, ‘तत्र हतानां छागादीनां स्वर्गगतिश्च जायत’ इति वद्भि॑िरास्तिकै-
रास्थीयते तदा तत्र ज्योतिष्टोमादौ यजमानेन यागप्रवृत्तेन आस्तिकेन स्वपिता
स्वजनकः कस्मात् कुतो हेतोः न हन्यते ? पशुर्हतो यदि स्वर्गं गच्छति तर्हि यज-
मानः स्वर्गं प्रापयितुं स्वं पितरमपि तत्रैव हन्तु, तावतैवाल्पेन प्रयत्नेन तत्पिता
स्वर्गं यास्यति, कृत तत्स्वर्गप्राप्तये प्रयत्नान्तरानुष्ठानेनेत्यर्थः । अनेन देवयज्ञप्रति-
पादकं शास्त्रं दूषितमिति बोध्यम् ॥ २० ॥
मृतानामिति० श्राद्धम् श्रद्धया कृतं दशाहपिण्डदानादि मृतानाम् प्राणैस्त्यक्तानाम्
अपि जन्तूनां प्राणिनाम् चेत् तृप्तिकारणम् सन्तोषसाधनम् , तदा स्नेहः तैलम्
निर्वाणस्य अग्निशिखया वियुक्तस्य प्रदीपस्य शिखाम् ज्वालाम् सम्वर्धयेत् , यदि
मृतस्यापि जन्तोःश्राद्धेन तृप्तिर्जायते तदा निर्वाणे दीपे न्यस्तं तैलं तदीयामपि शिखां
समेधयितुं शक्नुयान्न च शक्नोति, तत् पुत्रकृतेन श्राद्धेन मृतस्य पितुरपि तृप्तिर्न
भवितुं शक्नोतीति भावः । अनेन पितृयज्ञप्रतिपादकं शास्त्रं दूषितं वेदितव्यम् ॥२१॥
मिलता है तो दावाग्निदग्ध वृक्षोंमें बहुतसे फल भी होंगे ॥ १९ ॥
और—यदि यज्ञमें निहत पशुओंको स्वर्ग मिलता है तो यजमान अपने पिताओंको
यज्ञमे क्यों नहीं मारते हैं ॥ २० ॥
और—यदि मरे लोगोंको श्राद्धद्वारा तृप्ति प्राप्त होती है तो बुझे हुए दीपमें तेल
डालिये और उसकी शिखा बढ़ जायगी ॥ २१ ॥