सामग्री पर जाएँ
सर्वकोश
प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)

प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)

Prabodhachandrodaya of Krishnamishra with Commentary

कृष्णमिश्र यति द्वारा

DevanagariHindipublished274 पृष्ठ

पृष्ठ 83, कुल 274 में से

संदर्भ में पढ़ें
पृष्ठ 83

द्वितीयोऽङ्कः ६५
यन्ते। नास्ति परलोकः। मृत्युरेवापवर्गः। तदेतदस्मदभिप्रायानुबन्धिना
वाचस्पतिना प्रणीय चार्वाकाय समर्पितम्। तेन च शिष्योपशिष्यद्वारेणा-
स्मिँल्लोके बहुलीकृतं तन्त्रम्।
( ततः प्रविशति चार्वाकः शिष्यश्च )
चार्वाकः— वत्स, जानासि दण्डनीतिरेव विद्या। अत्रैव वार्त्तान्तर्भवति। धूर्तप्रलापस्त्रयी। स्वर्गोत्पादकत्वेन विशेषाभावात्। पश्य—
स्वर्गः कर्तृक्रियाद्रव्यविनाशे यदि यज्वनाम्।
शब्दप्रमाणैकसमर्थ्यत्वात्। आत्मनो भोक्तुः स्थिरस्याभावोऽपि परलोकाभावे कारण-
त्वेनोपस्थाप्यते। मृत्युः-देहपातः, मोक्ष इति परप्रसिद्धिमभिरुध्योक्तं, यमन्ये मोक्ष-
माहुः सोऽत्र मते मृत्युरेवेति भावः। अस्मदभिप्रायानुबन्धिना-मदाशयानुरोधिन।
वाचस्पतिना-गुरुणा। चार्वाकाय-तदभिधानाय। चारु-रमणीया वाक् उक्तिर्यस्येति
विग्रहे चार्वाकपदसिद्धिः, उकारलोपः पृषोदरादिः। तेन-चार्वाकेण। शिष्योपशिष्य-
द्वारेण-शिष्यपरम्परया। बहुलीकृतम्-प्रचारितम्। तन्त्रम्-शास्त्रम्। 'ततः' इत्यत्र
द्वितीयपताकास्थानत्वं, सहसैवार्थसम्पत्तिर्गुणवत्युपचारतः। पताकास्थानकमिदं द्वितीयं
परिकीर्तितमिति तल्लक्षणयोगात्, अत्र सहसैव सशिष्यचार्वाकरूपपात्रप्रवेशात्।
दण्डनीतिः—राजनीतिः, नान्त्रीक्षिकीयाद्यस्तन्त्र वेदप्रामाण्यसमर्थनस्य कृतत्वा-
दित्ययुक्तम्। वार्त्ता-अर्थानर्थप्रतिपादकं नीतिशास्त्रम्। अत्रैव-राजनीतावेव। त्रयी-
वेदत्रयी। धूर्त्तप्रलापः-वञ्चकजनवचनानि। वेदानां धूर्त्तप्रलापतां समर्थयितुं तत्प्रति-
पाद्य स्वर्गादिरसम्भवित्वं वक्ष्यत्यग्रेऽनुपदमेव।
स्वर्ग इति० कर्तृक्रियाद्रव्यविनाशे—कर्त्तारः यज्ञविधायका ऋत्विजः, क्रियाः
होमादयः, द्रव्यम् यज्ञविधौ प्रयुज्यमानं पुरोडाशादि, तेषाम् विनाशे अपाये, कर्त्तुः
कालक्षेपवशान्मृत्युनाऽपायः, क्रियायाः कतिपयक्षणोत्तरमेवापायः, तत्रोपयुज्यमान-
द्रव्याणामपि नातिचिरेणैवापायस्तदेवं सर्वेषामभावे (अपि) यज्वनाम् यज्ञं कृतव-
नहीं है। मरना ही अपवर्ग है। हमारी रुचिके अनुसार वाचस्पतिने इस शास्त्रका निर्माण
करके चार्वाकको समर्पित किया और चार्वाकके शिष्योपशिष्यो द्वारा यह शास्त्र लोकमें फैला।
( अनन्तर चार्वाक तथा शिष्यका प्रवेश )
चार्वाक—वत्स, जानते हो दण्डनीति ही विद्या है, वार्त्ताका भी इसीमे अन्तर्भाव है।
वेद तो धूर्त्तों की बेतुकी बातें हैं। वेदों ने जो स्वर्गकी बात कही है उसमे क्या विशेषता
है। देखो—
कर्त्ता, क्रिया, साधन द्रव्य आदिके नाश हो जाने पर यज्ञ करनेवालोंको यदि स्वर्ग
५ प्र० च०