सामग्री पर जाएँ
सर्वकोश
प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)

प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)

Prabodhachandrodaya of Krishnamishra with Commentary

कृष्णमिश्र यति द्वारा

DevanagariHindipublished274 पृष्ठ

पृष्ठ 69, कुल 274 में से

संदर्भ में पढ़ें
पृष्ठ 69

द्वितीयोऽङ्कः ५१
दम्भः—( हस्तसंज्ञया समाश्वासयति )
बटुः—एवमाराध्यपादा आज्ञापयन्ति दूरदेशादागतस्यार्यस्य कुलशी-
लादिकं न सम्यगस्माकं विदितम् ।
अहंकारः—आः कथमस्माकमपि कुलशीलादिकमिदानीं परीक्षित-
व्यम् । श्रूयताम्—
गौडं राष्ट्रमनुत्तमं निरुपमा तत्रापि राढापुरी
भूरिश्रेष्ठकनाम धाम परमं तत्रोत्तमो नः पिता।
तत्पुत्राश्च महाकुला न विदिताः कस्यात्र तेषामपि
प्रज्ञाशीलविवेकधैर्यविनयाचारैरहं चोत्तमः ॥ ७ ॥
आराध्यपादाः—मम गुरवो दम्भाः । अज्ञातकुलस्य भवतः कथं सत्कारो विधी-
यतामिति प्रतीक्षैवास्माकं सत्कारप्रवृत्तौ विलम्बे कारणमिति तदुक्तेराशयः ।
कुलम्-वंशः । शीलम्-स्वभावः । परीक्षितव्यम्—कोटिनिर्धारणपूर्वकं प्रश्नादिना
निर्धारणीयम् ।
गौडमिति० अनुत्तमम् सर्वोत्कृष्टम् गौडम् राष्ट्रम् देशः, तत्र गौडे अपि निरुपमा
असमाना राढा तदभिख्यया प्रथमाना पुरी नगरी, तत्र राढा पुर्याम् अपि भूरिश्रेष्ठ-
कनाम तदभिधानम् परमम् उत्कृष्टम् धाम गृहम्, तत्र धामनि उत्तमः सर्वश्रेष्ठः
नः पिता जनयिता । तत्पुत्राः तस्य मम पितुः सुताः महाकुलाः । सद्वंशप्रसूताः
( वयम् सर्वे भ्रातरः ) अत्र वाराणस्यां कस्य न विदिताः ज्ञाताः, तेषाम् अस्माकं
सर्वेषां सोदराणामपि मध्ये च प्रज्ञाशीलविवेकधैर्यविनयाचारैः बुद्धिस्वभावज्ञान-
गम्भीरत्वनम्रताचरित्रचातुर्यैः अहम् अहङ्कारः उत्तमः श्रेष्ठः अस्मीति शेषः । यस्य
मम विश्वविदिते गौडराष्ट्रे समुद्भवः, तद्राष्ट्रालङ्कारभावं भजन्ती राढापुरी वसतिः,
दम्भ—( हाथके इशारेसे आश्वासन देता है )
बटु—गुरुदेवकी आज्ञा होती है कि दूर देशसे आये हुए आपके कुल तथा शील हम
ठीकसे नहीं जान सके हैं ।
अहङ्कार—( क्रोधसे ) आः, क्या हमारे कुल-शील की भी अब परीक्षा करेंगे ?
सुनलें—गौड़ एक अनुपम देश है, उसमे निरुपमेय राढा नामकी नगरी है, जहाँ
भूरिश्रेष्ठक वास करते हैं । उन भूरिश्रेष्ठकोंमें उत्तम हमारे पिता हैं । महाकुलप्रसूत उनके
पुत्र किसे नहीं विदित हैं, उनमें भी प्रज्ञा, शील, विवेक, धीरता, विनय और आचारसे
मै उत्तम कहा जाता हूँ ॥ ७ ॥