प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)
Prabodhachandrodaya of Krishnamishra with Commentary
कृष्णमिश्र यति द्वारा
पृष्ठ 70, कुल 274 में से
संदर्भ में पढ़ें५२ प्रबोधचन्द्रोदयम्
( दम्भो बटुं पश्यति )
बटुः—( ताम्रघटीं गृहीत्वा ) भगवन्, पादशौचं विधीयताम् ।
अहंकारः—( स्वगतम् ) भवतु । कोऽत्र विरोधः । एवं क्रियते ।
( तथा कृत्वोपसर्पति )
दम्भः—( दन्तान् संपीड्य बटुं पश्यति )
बटुः—दूरे तावत्स्थीयताम् । वाताहताः प्रस्वेदकणिकाः प्रसरन्ति ।
अहंकारः—अहो, अपूर्वमिदं ब्राह्मरायम् ।
बटुः—ब्रह्मन्, एवमेतत् । तथाहि—
अस्पृष्टचरणा ह्यस्य चूडामणिमरीचिभिः ।
तत्राप्युत्कृष्टं भूरिश्रेष्ठकं नाम गृहम् , तत्रापि गृहे सर्वोत्कृष्टतया प्रथमानो जनो
जनयिता, मम सोदर्याः सर्वेऽपि वाराणस्यामिह प्रसिद्धा एव तेष्वपि स्वीयप्रज्ञादि-
भिरहं प्रथिततमस्तथापि मम कुलशीलादिकमत्र परीक्षितव्यं मन्यत इति महदनौ-
चित्यमिति भावः, शार्दूलविक्रीडितमेव वृत्तम् ॥ ७ ॥
पादशौचम्-चरणप्रक्षालनम् । अत्र—पादशौचानुष्ठाने ।
वाताहताः—पवनचलिताः । प्रस्वेदकणिकाः-भवद्देहस्थितघर्मजलबिन्दवः । प्रस-
रन्ति-भवद्देहाच्चतुर्दिक्षु व्याप्नुवन्ति ।
ब्राह्मरायम्-ब्राह्मणाचारः । सोपहासमिदं वचनम् , उपहासकारणं चातिशयिता-
डम्बरदर्शनम् । एवमेतत्-भवता यदुपहस्यते तदन्यथ्यं स्वाभाविकं न कृत्रिममतोनोप-
हास्यमिति तात्पर्यम् ।
अस्पृष्टचरणा इति० अस्पृष्टचरणाः पादस्पर्शं कर्तुमसमर्थाः भूपालाः राजानः अस्य
दम्भस्य पादपीठान्तभूतलम् पादपीठसमीपगतधरित्रीतलम् चूडामणिमरीचिभिः
( दम्भ बटुकी ओर देखता है )
बटु—( ताम्र घट लेकर ) महाराज, चरण पखार ले ।
अहङ्कार—( स्वगत ) अस्तु, इसमे क्या विरोध है । ऐसा कर ही लेता हू ।
( पैर धोकर समीप जाता है )
दम्भ—( दांत पीसकर बटुको देखता है )
बटु—महाराज, जरा अलग ही रहना, हवाके साथ पसीनेकी बूंदें उड़कर आरही है ।
अहङ्कार—अहा ! कैसा अपूर्व ब्राह्मणत्व है ।
बटु—महाराज, यही तो बात है क्योंकि इनके चरणों को न छूकर भूपाल लोग