प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)
Prabodhachandrodaya of Krishnamishra with Commentary
कृष्णमिश्र यति द्वारा
पृष्ठ 68, कुल 274 में से
संदर्भ में पढ़ें५० प्रबोधचन्द्रोदयम्
चूडाग्रकर्णकटिपाणिविराजमान-
दर्भाङ्कुरः स्फुरति मूर्त इवैष दम्भः ॥ ६ ॥
भवतुपसर्पाम्येनम् । (उपसृत्य) कल्याणं भवतु भवताम् ।
(दम्भो हुंकारेण निवारयति)
(प्रविशति बटुः)
बटुः—(ससंभ्रमम्) ब्रह्मन्, दूरत एव स्थीयताम् । यतः पादौ
प्रक्षाल्य एतदाश्रमपदं प्रवेष्टव्यम् ।
अहङ्कारः—(सक्रोधम्) आः पाप, तुरुष्कदेशं प्राप्ताः स्मः यत्र श्रोत्रि-
यानतिथीनासनपाद्यादिभिरपि गृहिणो नोपतिष्ठन्ति ।
चिह्नं धारयन्नित्यर्थः । चूडाग्रे शिरोदेशे कर्णयोः श्रवणयोः कटौ कटिप्रदेशे पाण्योर्ह-
स्तयोश्च विराजमानः शोभमानो दर्भाङ्कुरो नवकुशो यस्य तादृशश्च मूर्त्तः शरीरधारी
दम्भ इव एषः पुरो दृश्यमानो जनः स्फुरति प्रकाशते । तं तं वञ्चनाप्रकारं बिभ्रदयं
जनो मूर्त्तो दम्भ इव राजत इत्यर्थः । वसन्ततिलकं वृत्तम् ॥ ६ ॥
उपसर्पामि-समीपं गच्छामि । हुङ्कारेणेति० सर्वंनमस्याथ मह्यमाशिषः प्रयुञ्जानः
कोऽपि महापराधीति तस्मै हुङ्कारप्रयोगः ।
बटुः-दम्भशिष्यः । ब्रह्मन्निति सोपहासं सम्बोधनं, वास्तविकायां तु ब्रह्मत्वबुद्धौ
दूरतः स्थीयतामिति कथनमनवसरप्राप्तं स्यादिति बोध्यम् ।
तुरुष्कदेशम्-यवनजनपदम् । श्रोत्रियान्-वेदाध्यायिनः । अतिथीन्-अभ्याग-
तान् । आसनपाद्यादिभिः-आसनं विष्टरः, पाद्यं पादार्थमुदकम्, तदादिभिः तत्प्र-
भृतिस्तत्प्रथमैरुपचारैः । गृहिणः-गृहस्थाः । नोपतिष्ठन्ति-न सत्कुर्वन्ति । नूनं तुरु-
ष्कदेशोऽयं यन्नैतावत्यप्यतिथिसपर्या गृहस्थैर्न क्रियते इति भावः ।
लगाये तथा शिखा, कान, कटि देश और हाथोंमे कुश लिये हुये यह तो शरीरधारी
दम्भ-सा लग रहा है ॥ ६ ॥
अस्तु—मै इसके पास जाता हू । (समीप जाकर) जय हो । (दम्भ हुंकार द्वारा
वारण करता है)
(बटुका प्रवेश)
बटु—(घबडाहटके साथ) महाराज, अलग ही रहना, क्योंकि पाँव धोकरके इस
आश्रममे प्रवेश करनेका नियम है ।
अहङ्कार—(क्रोधसे) आः पाप, क्या हम तुर्कोंके देशमे पहुंच गये है जहाँ पर श्रोत्रिय
अतिथियोंको आसन पाद्य आदि से भी सत्कृत नही किया जाता है ।