प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)
Prabodhachandrodaya of Krishnamishra with Commentary
कृष्णमिश्र यति द्वारा
पृष्ठ 67, कुल 274 में से
संदर्भ में पढ़ेंद्वितीयोऽङ्कः ४६
प्रांशुवंशकाण्डताऽण्डिताऽण्डवितधौतसितसूक्ष्माम्बरसहस्रमितस्ततो विन्यस्तकृष्णा-
जिनदृषदुपलसमिच्चषालोलूखलमुसलमनवरतहुताज्यगन्धधूमश्यामलित-
गगनमण्डलममरसरितो नातिदूरे विभात्याश्रममण्डलम् । नूनमिदं
कस्यापि गृहमेधिनो गृहं भविष्यति । भवतु । युक्तमस्माकमतिपवित्रमेतद्-
द्वित्रिदिवसनिवासस्थानम् । ( प्रवेशं नाटयति । ) ( विलोक्य च ) अये,
मृद्विन्दुलाञ्छितललाटभुजोदरोरः-
कण्ठोष्ठपृष्ठचिबुकोरुकपोलजानुः ।
यत्रेत्येकं गृहविशेषणम् । इतस्ततः यत्र तत्र । विन्यस्तानि स्थापितानि कृष्णा-
जिनानि आसनभावेनोपयुज्यमानानि मृगचर्माणि, दृषत्, उपलम्, ( एतौ
प्रस्तरखण्डभेदौ यज्ञोपयोगिनौ ) समित् काष्ठम्, चषालः पात्रभेदः, उलूखल-
मुसले स्वनामख्याते अवहननसाधनायापेक्ष्यमाणे, यत्रेति द्वितीयं गृहस्यैव
विशेषणम्, अनवरतम् सततम् हुतस्य हवनकर्मीकृतस्य आज्यस्य घृतस्य गन्धो
यत्र तेन धूमेन श्यामलितं कृष्णीकृतं गगनमण्डलं यत्रेति तृतीयं तद्विशेषणम् ।
अमरसरितः-देवापगाया गङ्गायाः । नातिदूरे-अनतिविप्रकृष्टम् । इयं चतुर्थं विशेष-
णम् । आश्रममण्डलम्-आश्रमः आसमन्तात् श्राम्यन्ति तपसा कार्यं क्लेशयन्ति
यत्रेति विग्रहेण श्रोत्रियभवनपरम् , तन्मण्डलम् तदाकारं भवनमित्यर्थः । नातिदूर-
शब्दे-नैकशब्दवत्सुप्सुपेति समासो बोध्यः, नञा समासे त्वनतिदूरे इति स्यात् ।
अतिपवित्रम्-अतिशयपूतम् । इदम्-गृहमेधिनो गृहम् । द्वित्रदिवसनिवासस्थानम्-
अस्थायिवासोपयुक्त स्थलम् ।
मृद्विन्द्विति० मृदुना बालेन इन्दुना चन्द्रमसा ( अत्र बालचन्द्राकृतिचन्दनचिह्नं
बालचन्द्रत्वेनोपचर्यमाणं बोध्यम् ) लाञ्छितानि ललाटः भालदेशः, भुजो बाहुः,
उदरं कुक्षिः, उरो वक्षः, कण्ठो गलदेशः, ओष्ठम् अधरः, पृष्ठम् पश्चाद्भागः, चिबुकम्
हनुः, कपोलौ मुखपार्श्वे, जानू जङ्घे च यस्य सः, तत्तदङ्गेषु बालचन्द्राकृतिचन्दन-
स्वच्छ वस्त्र हिलडोल रहे है, जहाँ कृष्णाजिन, प्रस्तरखण्ड, समिधा, चषाल, ऊखल,
मुसल पड़े हैं और जो सतत होमके होने रहनेके कारण धूम निकलता रहता है और
सुगन्धि फैलती रहती है । अवश्य ही यह किसी गृहमेधी का घर होगा । अस्तु, इस पवित्र
स्थानमे हम दो चार रोज ठहर सकते हैं ।
( देखकर ) अरे,
ललाट, बाहु, उदर, कण्ठ, ओष्ठ, पीठ, गाल आदि स्थानों पर चन्द्राकार चन्दन
४ प्र० च०