प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)
Prabodhachandrodaya of Krishnamishra with Commentary
कृष्णमिश्र यति द्वारा
पृष्ठ 195, कुल 274 में से
संदर्भ में पढ़ेंपञ्चमोऽङ्कः १७७
तस्मिन्नेवातिमहति महादारुणे सङ्ग्रामे परापरपक्षविरोधितया
पाषण्डागमैरग्रेसरीकृतं लोकायतं तन्त्रमन्योन्यसैन्यविमर्द्दनैर्नष्टम् । अन्ये
तु पाषण्डागमा मूलनिर्मूलतया सदागमार्णवप्रवाहेण पर्यस्ताः । सौगता-
स्तावत्सिन्धुगान्धारपारसिकमागधान्ध्रहूणवङ्गकलिङ्गादीन्म्लेच्छप्रायान्प्र-
विष्टाः । पाषण्डदिगम्बरकापालिकादयस्तु पामरबहुलेषु पाञ्चालमालवा-
श्वेतपक्षिभेदा अवतंशा भूषणानि यासां तास्तथोक्ताः स्रवन्त्यः नद्यः तत्र युद्धभूमौ
सस्रुः प्रावहन्त । तुमुले सङ्ग्रामे प्रवर्त्तमाने रुधिरतोयप्रवाहिन्यो नद्यस्तत्र युद्धक्षेत्रे
प्रावहन्न्यत्र नद्यां जलं रक्तमेव, कर्दमस्थानीयं मांसम् , कङ्का एव च दीनाः प्राणिनः,
हस्तिनां विपाटितानां शिरोदेशेभ्यस्तत्रस्थितानां मृतानाञ्च राज्ञां यानि श्वेतातप-
त्राणि पतन्ति तानि हंसा इव प्रतीयमानास्तस्या नद्या भूषणतां भजन्त इत्यर्थः ।
साङ्गरूपकमलङ्कारः । मालिनीवृत्तम् , तल्लक्षणं यथा—'ननममययुतेयं मालिनी-
भोगिलोकैः' इति ॥ १० ॥
महादारुणे-अतिभयङ्करे । परापरपक्षविरोधितया-स्वपक्षविरोधितया स्ववि-
रोधिविवेकपक्षविरोधितया च अयमर्थः-पाखण्डागमा जैनबौद्धचार्वाकतान्त्रिकादयो
मनस्येवमचिन्तयन् यदयं लोकायतागमः पुरतो यातु, अयमस्माकमपि शत्रुरेव, सर्व-
शत्रोर्विवेकस्यापि तथाभूतः, यद्ययं जयति तदा जितमस्माभिः, अथायं विवेकेन
पराजीयतेऽथापि नास्माकं किमपि च्छिन्नम् , अत एव ते मिलित्वा लोकायतं मतं
पुरः कृतवन्त इति भावः 'कण्टकेनैव कण्टकम्' इति नीतिस्तत्र प्रयुक्तेति भावः ।
अन्योन्यसैन्यविमर्द्दनैः-पस्परसैनिकसङ्घर्षैः । केवलं सैन्यसङ्घर्षमात्रेण लोकायतं
मतं नष्टमिति प्रतिपादनात्तच्छ्रुताऽनतिप्रौढ़तर्कप्रयोगजेयता च लोकायतमतस्य
ध्वनिता । अन्ये-लोकायतातिरिक्ताः । पाखण्डागमाः जैनबौद्धादयः । मूलनिर्मूल
तया-शिथिलमूलतया । सदागमार्णवप्रवाहेण-सदागमावैदिकमार्गप्रवृत्तमतानि
तान्येव अर्णवः समुद्रः, गभीरत्वादर्णवत्वोक्तिः, तस्य प्रवाहेण-धारया । पर्यस्ताः-
परितः क्षिप्ताः । यथा निर्मूलाः पथि पतिताः पदार्थाः पयसः प्रबलप्रवाहेण दूरं
नीयन्ते तद्वदिमेऽपि पाखण्डागमाः सदागमप्रवाहेण शिथिलमूलतया दूरमत्यवाह्य-
उस महान् तथा दारुण युद्धमे पाखण्डागमोंने परापर पक्षविरोधी होनेके कारण लोका-
यत मतको आगे करदिया जो अन्योन्य सैन्य सङ्घर्षसे नष्ट हो गया । और पाखण्डागम
मूल शून्य होनेके कारण सदागमरूप समुद्रके प्रवाहमे बह गये । बौद्धमत सिन्धु, गान्धार,
पारसीक, मागध, आन्ध्र, हूण, वङ्ग, कलिङ्ग, आदि म्लेच्छप्राय देशोंमे जा बसे । पाखण्ड
दिगम्बर कापालिक आदि पामरबहुल पाञ्चाल मालव आभीर आवर्त्त सागरानूप देशोंमे
१२ प्र० च०