प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)
Prabodhachandrodaya of Krishnamishra with Commentary
कृष्णमिश्र यति द्वारा
पृष्ठ 194, कुल 274 में से
संदर्भ में पढ़ें१७६ प्रबोधचन्द्रोदयम्
विष्णुभक्तिः—ततस्ततः ।
श्रद्धा—ततो देवि, परस्परं करितुरगपदातीनां निरन्तरशरनिकरधारा-
संपातोपदर्शितदुर्दिनानां तेषामस्माकं च योधानां सङ्ग्रामस्तुमुलसंप्रहारः
प्रावर्तत । तथाहि—
बहुलरधिरतोयास्तत्र सस्रुः स्रवन्त्यो
निबिडपिशितपङ्काः कङ्करङ्कावकीर्णाः ।
शरदलितविदीर्णोत्तुङ्गमातङ्गशैल-
स्खलितरयविशीर्णच्छत्रहंसावतंसाः ॥ १० ॥
कापिलाः, क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष इति पातञ्जलाः, लोकवेदवि-
रुद्धैरपि निर्लेपः स्वतन्त्रश्चेति महापाशुपताः, शिव इति शैवाः, पुरुषोत्तम इति
वैष्णवाः, पितामह इति पौराणिकाः, यज्ञपुरुष इति याज्ञिकाः, सर्वज्ञ इति सौगताः,
निरावरण इति दिगम्बराः, उपास्यत्वेन देशित इति मीमांसकाः, लोकव्यवहारसिद्ध
इति चार्वाकाः, इति ॥ ९ ॥
करितुरगपदातीनाम्—हस्त्यश्वपादचारिसेनानाम् । निरन्तरेति० निरन्तरं सततं
शरनिकरस्य बाणसमूहस्य धारासम्पातेन अखण्डवर्षणेनोपदर्शितं प्रकटीकृतं दुर्दिनं
मेघच्छन्नमहो यैस्तादृशानाम् । तेषाम्-मोहपक्षीययाणाम् । अस्माकम्-विवेकानु-
गानाम् । योधानाम्-युद्धद्यमानवीराणाम् । संग्रामः-युद्धम् । तुमुलसम्प्रहारः-भय-
ङ्करशस्त्रनिपातः । प्रावर्त्तत-प्रारेभे ।
बहुलेति० तत्र बहुलं समधिकं रुधिरं रक्तमेव तोयं जलं यासु ताः, निबिडं घनं
पिशितं मांसमेव पङ्कः कर्द्दमो यासु तादृश्यः, कङ्काः पक्षिविशेषास्त एव रङ्का दीन-
प्राणिनस्तैरवकीर्णाः व्याप्ताः शरैः बाणैर्दलिता जर्जरतां गमिता अत एव विदीर्णाः
विपाटिताः ये उत्तुङ्गाः उच्चाः मातङ्गाः हस्तिनस्त एव शैलाः पर्वतास्तेभ्यः स्खलि-
तरयाः शून्यवेगास्ते विशीर्णच्छत्राणि इतस्ततः प्रसृतानि श्वेतातपत्राण्येव हंसाः
विष्णुभक्ति—उसके बाद ।
श्रद्धा—देवि, उसके बाद परस्पर हाथी, घोडा, पदचर सभी निरन्तर शरवर्षासे
दुर्दिन दिखने लगे, उनके और हमारे सैन्यमें तुमुल युद्ध छिड़ गया ।
मांसरूप पङ्कसे युक्त तथा कङ्करूप दीन प्राणियोंसे पूर्ण, रुधिरजलमयी नदियाँ बह
निकलीं। बाणोंसे खण्डित सिरवाले हाथीरूप शैलसे वेगसे गिरने वाले छत्र ही उस नदीके
हंस प्रतीत होते थे ॥ १० ॥