प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)
Prabodhachandrodaya of Krishnamishra with Commentary
कृष्णमिश्र यति द्वारा
पृष्ठ 196, कुल 274 में से
संदर्भ में पढ़ें१७८ प्रबोधचन्द्रोदयम्
भीरावर्त वर्त्तसागरानूपेषु सागरोपान्ते निगूढं संवरन्ति । न्यायाद्यनुगत-
मीमांसावगाढप्रहारजर्जरीकृता नास्तिकतर्कास्तेषामेवागमानामनुपथं
प्रयाताः ।
विष्णुभक्तिः—ततस्ततः ।
श्रद्धा—ततो वस्तुविचारेण कामो हतः, क्षमया क्रोधपारुष्यहिंसादयो
निपातिताः, सन्तोषेण लोभतृष्णादैन्यानृतपैशुन्यवाक्स्तेयासत्प्रतिग्रहादयो
निगृहीताः, अनसूयया मात्सर्यं जितम्, परोत्कर्षसंभावनया मदो निष्षू-
दितः, परगुणाधिक्येन मानः खण्डितः ।
न्तेति भावः । सौगताः-सुगतोबुद्धस्तत्प्रणीता आगमाः । म्लेच्छप्रायान्-म्लेच्छधर्म-
धारिजनबहुलान् । यन्न देशेषु भूम्ना म्लेच्छा वसन्ति तान्प्रयाता इति भावः । पामर-
बहुलेषु नीचजनैः समधिकभावेनोषितेषु । सागरानूपेषु-सागरतटवासिदेशेषु, 'जल-
प्रायमनूपं स्यात्' इत्यमरः । सागरोपान्ते-समुद्रतीरे । निगूढम्-अप्रकटभावेन ।
न्यायाद्यनुगतमीमांसया-न्यायसहकृतेन मीमांसाख्यविचारशास्त्रेण । अवगाढप्रहार
जर्जरीकृता दृढतरप्रहारशकलीकृताः । नास्तिकतर्काः-बौद्धादिन्यायाः । तेषाम्-
बौद्धशास्त्राणाम् । अनुपदम्-पश्चात् । अनेन बौद्धागमबौद्धशास्त्रबौद्धतर्काणां तिरस्का-
रकथनेन द्रवसंज्ञकं विमर्शसन्धेरङ्गमुक्तम्, तल्लक्षणं यथा-'द्रव इत्युच्यते तज्ज्ञैर्वि-
दुषां च तिरस्क्रिया' इति ।
वस्तुविचारेण—नारीस्वरूपस्यास्थिमांसादिमयत्वभावनया । हतः-दूरंगमितः,
स्वचित्तादपगमनमेव कामवधो बोध्यः । क्षमया-सहिष्णु तया । क्रोधपारुष्यहिंसा-
दयः-कोपकठोरतापरवधप्रवृत्तिप्रभृतयः, एतेषां क्षमाऽभावप्रभवतया क्षमया निरासो
ज्ञेयः, स्वविरुद्धव्यपासनस्वाभाव्याद् भावानाम् । निपातिताः-मारिताः । सन्तोषेण-
लोभनिवृत्तिरूपेण भावेन । दैन्यम्-तुच्छताप्रत्ययः, अनृतम्-मिथ्याभाषणम्, पैशु-
छिप गये । न्यायादिसे अनुगत मीमांसाके कठोर प्रहारसे जर्जर नास्तिक तर्क उन्ही
आगमोंके पीछे हो लिये ।
विष्णुभक्ति—उसके बाद ।
श्रद्धा—उसके बाद वस्तुविचारने कामको मारा क्षमाने क्रोध पारुष्य हिंसा आदिको
समाप्त किया, सन्तोषने लोभ तृष्णा दैन्य मिथ्याभाषण पैशुन्य वचनचौर्य असत्प्रतिग्रह
आदिको निगृहीत किया । अनसूयाने मात्सर्यको जीता, परोत्कर्षसंभावना ने मदको दबाया,
परगुणाधिक्यने मानको खण्डित किया ।