प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)
Prabodhachandrodaya of Krishnamishra with Commentary
कृष्णमिश्र यति द्वारा
पृष्ठ 193, कुल 274 में से
संदर्भ में पढ़ेंपञ्चमोऽङ्कः १७५
येन वेदप्रसूतानां तेषामवान्तरविरोधेऽपि वेदसंरक्षणाय नास्तिक-
पक्षप्रतिक्षेपगाय शास्त्राणां साहित्यमेव । आगमानां च तत्त्वं विचारयताम
विरोध एव । तथाहि—
ज्योतिः शान्तमनन्तमद्वयमजं तत्तद्गुणोन्मीलना-
द्ब्रह्मेत्यच्युत इत्युमापतिरिति प्रस्तूयतेऽनेकधा ।
तैस्तैरेव सदागमैः श्रुतिमुखैर्नानापथप्रस्थितै-
र्गम्योऽसौ जगदीश्वरो जलनिधिर्वारां प्रवाहैरिव ॥ ६ ॥
वेदप्रसूतानाम्-वेदमूलकानाम् । तेषाम्-तत्तच्छास्त्राणाम् । अवान्तरविरोधे-
आभ्यन्तरिकविरुद्धत्वे । वेदसंरक्षणाय-वेदरक्षायै । नास्तिकपक्षप्रतिक्षेपगाय-चार्वा-
कादिमतनिरसनाय । साहित्यम्-मिलनम् । तत्त्वं विचारयताम्-याथात्म्यं भावय-
ताम्, अविरोधः-समन्वयः । तथा चोक्तं महिम्नः स्तोत्रे—'त्रयी साङ्ख्यं योगः पशु-
पतिमत्तं वैष्णवमिति प्रभिन्ने प्रस्थाने परमिदमदः पथ्यमिति च । रुचीनां वैचित्र्या-
दृजुकुटिलनानापथजुषां नृणामेको गम्यस्त्वमसि पयसामर्णव इव' इति ।
ज्योतिरिति० शान्तम् सर्वविधक्रियाराहित्येन स्तिमितकल्पम् अनन्तम् अवसान-
शून्यम् अद्वयम् सजातीयद्वितीयरहितम् अजम् उत्पत्तिरहितम् (ब्रह्म) तत्तद्-
गुणोन्मीलनात् तेषां तेषां गुणानामारोपात् सत्त्वप्राधान्यरजःप्राधान्यतमःप्राधान्य-
रूपस्वरूपगुणत्रितयाध्यासात् ब्रह्मा इति अच्युतः विष्णुिरिति उमापतिः शिव इति
चानेकधा नानाप्रकारेण प्रस्तूयते । एकमपि ब्रह्म रजोगोगमारोप्य विधातृतया
सत्त्वगुणाश्रयत्वमुपचर्याविष्णुरूपेण तमोगुणप्राचुर्यकल्पनया च शिवत्वेनोच्यत इति
वक्तव्यसारः । नानापथप्रस्थितैः भिन्नभिन्नवर्त्मभिश्चलितैस्तैस्तैः भिन्नैः सदागमैः
आस्तिकशास्त्रैः वारां प्रवाहैर्जलधाराभिर्जलाविधिः समुद्र इव असौ परमेश्वरः पर-
मात्मा एव गम्यः प्राप्यः । यथानेकपथप्रस्थिता अपि जलप्रवाहा अन्ते सागरमेव
प्रपद्यन्ते तथा तत्तन्मतान्यपि परमात्मन्येव पर्यवस्यन्ति, श्रूयते हि वादनानाविध्यं
यथा-कुसुमाञ्जलौ-शुद्धबुद्धस्वभाव इत्यौपनिषदाः, आदिविद्वान् सिद्ध इति
जैसे वेदप्रभव शास्त्रोंमे यद्यपि अवान्तर विरोध है फिर भी वेदके संरक्षण तथा नास्तिक
मतखण्डनमे सबका एक मत ही है । आगमोंमे तत्त्वविचार करने पर विरोध है ही नहीं ।
क्योंकि—
शान्त, अनन्त, अद्वितीय, अजन्मा, ज्योति तत्तद्गुणप्रकाशसे ब्रह्मा, अच्युत, उमापति
इस प्रकार अनेकधा कहा जाता है । भिन्न-भिन्न तथा नानापथ प्रस्थित शास्त्रोंसे वहीं एक
ईश्वर कहा जाता है, जैसे जलप्रवाह समुद्रमें ही गिरते हैं ॥ ९ ॥