सामग्री पर जाएँ
सर्वकोश
प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)

प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)

Prabodhachandrodaya of Krishnamishra with Commentary

कृष्णमिश्र यति द्वारा

DevanagariHindipublished274 पृष्ठ

पृष्ठ 192, कुल 274 में से

संदर्भ में पढ़ें
पृष्ठ 192

१७४ प्रबोधचन्द्रोदयम्
वाग्देव्याः पुरस्त्रयीत्रिनयना कात्यायनीवापरा ॥ ७ ॥
शान्तिः—अये, कथं पुनः स्वभावप्रतिद्वन्द्विनामागमानां तर्काणां च
समवायः संपन्नः ।
श्रद्धा—पुत्रि,
समानान्वयजातानां परस्परविरोधिनाम् ।
परैः प्रत्यभिभूतानां प्रसूते संगतिः श्रियम् ॥ ८ ॥
पुरतः अग्रे अपरा कात्यायनी इव द्वितीया गौरीव आविरासीत् प्रकटीबभूव । कात्या-
यन्यपि त्रिनयना इन्दुकान्तानना समरोत्सुका सहस्रबाहुशालिनी चेति दुर्गा सप्त-
शती । यदा सरस्वती योद्धुं समनह्यत्तदा तत्पुरतो मीमांसा कात्यायनीव, प्रादुरा-
सीदित्यर्थः । शार्दूलविक्रीडितमेव वृत्तम् ॥ ७ ॥
स्वभावप्रतिद्वन्द्विनाम्-स्वारसिकविरोधिनाम् । आगमा अपि स्वभावतः पर-
स्परविरुद्धाः, यथा-‘द्वे ब्रह्मणी वेदितव्ये’ इत्यस्य ‘एकमेवाद्वितीयं ब्रह्म’ इत्यतो
विरोधः । तर्काणामपि परस्परविरोधः प्रसिद्ध एव । समवायः-सङ्घातः, समाने
कार्ये सहभाव एवात्र समवायः । सम्पन्नः-जातः ।
समानेति० समाने अभिन्ने अन्वये वंशे जातानां प्रसूतानाम् परस्परविरोधिनाम्
अन्योन्यविरुद्धानाम् परैः शत्रुभिः अभिभूतानाम् आस्कन्दितानाम् सङ्गतिः सह-
भावः श्रियं सम्पदं प्रसूते जनयति, समानवंशजाताः परस्परविरोधिनोऽपि परकर्तृ-
कापमानोपस्थितौ यदि परस्परं संहता भवन्ति तदा तेषामभ्युदयो जायते, लोकि-
कीयं स्थितिः, तथैवात्रापि परस्परविरुद्धानां तत्तच्छास्त्राणां वेदरूपमेकमन्वयं विभ्रतां
संहतिरपराजयेतालक्षणां श्रियं जनयेदिति भावः । दृश्यन्ते चापि लोकाः स्वभ्रातृभिः
सातिशयविरोधा अपि परास्कन्दनावसरे संहताः । उक्तश्चायमर्थो महाभारते युधि-
ष्ठिरेणापि—‘वयं पञ्च वयं पञ्च वयं पञ्च शतञ्च ते । अन्यैः सह विवादे तु वयं पञ्च-
शतोत्तरम्’ इति ॥ ८ ॥
मुखचन्द्रशोभिता मीमांसा वेदत्रयीरूप तीन आंखोसे युक्त दूसरी कात्यायनीकी तरह
प्रकट हुई ॥ ७ ॥
शान्ति—अजी, स्वभावविरोधी आगम और तर्कोंका समन्वय किस प्रकार हुआ ?
श्रद्धा—बेटी, परस्परविरोधी समानवंश प्रसूतोका जब दूसरो द्वारा अभिभव होता
है तब उनमें मेल हो जाती है और उससे भलाई होती है ॥ ८ ॥