प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)
Prabodhachandrodaya of Krishnamishra with Commentary
कृष्णमिश्र यति द्वारा
पृष्ठ 166, कुल 274 में से
संदर्भ में पढ़ें१४८
प्रबोधचन्द्रोदयम्
सोऽहं प्रकीर्णैः परितो विचारैः
शरैरिवोन्मथ्य बलं परेषां ।
सैन्यं कुरूणामिव सिन्धुराजं
गाण्डीवधन्वेव निहन्मि कामम् ॥ १४ ॥
राजा—( सप्रसादम् ) तत्सज्जीभवतु भवाञ्छत्रुविजयाय ।
वस्तुविचारः—यदादिशति देवः ।
( इति प्रणम्य निष्क्रान्तः )
राजा—वेत्रवति, क्रोधस्य विजयाय क्षमैवाहूयताम् ।
प्रतीहारी—यद्देव आज्ञापयति । ( जं देवो आणवेदि )
( इति निष्क्रम्य क्षमया सह प्रविशति )
क्षमा—
क्रोधान्धकारविकटभ्रुकुटीतरङ्ग-
भीमस्य सान्ध्यकिरणारुणरौद्रदृष्टेः ।
सोऽहमिति० सोऽहम् वस्तुविचारः परितः प्रकीर्णैः वेदशास्त्रपुराणेतिहासादौ व्यस्त-
भावेन स्थितैः विचारैः परेषां कामादिजेतव्यानाम् बलम् सामर्थ्यम् उन्मथ्य
विद्राव्य गाण्डीवधन्वा अर्जुनः शरैः बाणैः परेषां कौरवाणाम् सैन्यम् ( उन्मथ्यैव )
सिन्धुराजम् इव कामम् निहन्मि । यथाऽर्जुनः प्रतिज्ञातजयद्रथवधः सन् बाणैः
शत्रुसैन्यमुन्मथ्य तद्दिने एव तमवधीत्तथैवाहं वस्तुविचारो यत्र तत्र व्यस्तभावेन
स्थितैः विचारैः कामस्य सैन्यं विद्राव्य तमद्यैव नाशयामीति भावः ॥ १४ ॥
सज्जीभवतु-सन्नद्धोऽस्तु ।
क्रोधान्धेति० क्रोधरूपो योऽन्धकारस्तेन विकटा भयजननी या भ्रुकुटी भ्रूको-
शरतुल्य बिखरे हुए विचारोंसे शत्रुसेनाको मथित करके , कुरुसेनाको मथकर अर्जुनने
जैसे जयद्रथको मारा था उसी तरह कामको मारता हूँ ॥ १४ ॥
राजा—( प्रसन्नतासे ) आप शत्रुसंहारार्थ तैयार हो जांय ।
वस्तुविचार—महाराजकी जो आज्ञा ।
( प्रणाम कर चला जाता है )
राजा—वेत्रवति, क्रोधकी विजय के लिये क्षमा को ही बुलालाओ ।
वस्तुविचार—महाराजकी जो आज्ञा ।
( जाकर फिर क्षमाके साथ प्रवेश करता है )
क्षमा—दुश्मन क्रोधसे भौंहें टेढ़ी करके भयानक चेहरा बनाये हो, उसकी आँखें