प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)
Prabodhachandrodaya of Krishnamishra with Commentary
कृष्णमिश्र यति द्वारा
पृष्ठ 165, कुल 274 में से
संदर्भ में पढ़ेंचतुर्थोऽङ्कः १४७
नारीति नाम प्रधानमङ्गं कामस्य । तेन तस्यां जितायां तत्सहायाः
सर्व एव विफलारम्भा भङ्गमासादयिष्यन्ति । तथाहि—
चन्द्रश्चन्दनमिन्दुधामधवला रात्रिर्द्विरेफावली-
झङ्कारोन्मुखरा विलासविपिनोपान्ता वसन्तोदयः ।
मन्द्रध्वानघनोदयाश्च दिवसा मन्दाः कदम्बानिलाः
शृङ्गारप्रमुखाश्च कामसुहृदो नार्यां जितायां जिताः ॥ १३ ॥
तदलमतिविलम्बेन । आदिशतु स्वामी ।
पिशितवसामय्यः मांसमज्जप्रचुराः नार्यः स्त्रियः क्व तथा मन्मथश्च क्व ? नामुयोः
कोऽपि प्रभावः स्यादिति भावः । विपुलपुलिनकल्लोलिनीलाभाद्-विविक्ततया चित्त-
स्थैर्यम् , निर्झरस्निग्धशिलोपलब्ध्या विचारभूमिप्राप्तिः, सान्द्रद्रुमवनभूमिलाभाज्जी-
वनौपयिकफलाहरणसंभावना, वैयासिकीनां शमगिरां लाभाच्छ्रवणोत्तरभाविचिन्त-
नावसरप्राप्तिः, बुधैः समागम इति जायमानशङ्काभ्युदारास्तदेवं स्थितौ कामस्य
कामिन्या वा प्रभावो न प्रसर्तुमर्ह इति भावः । हरिणीवृत्तम् ॥ १२ ॥
प्रधानम्-मुख्यम् । तस्याम्-नार्याम् । तत्सहायाः-कामस्य पोषकाः । विफला-
रम्भाः-निष्फलप्रयासाः । भङ्गम्-पराजयम् । आसादयिष्यन्ति-प्राप्स्यन्ति ।
चन्द्र इति० चन्द्रः शशी, चन्दनम् आलेपनम् , इन्दुधामधवला रात्रिः चन्द्र-
किरणोज्ज्वला निशा, झङ्कारोन्मुखरा झङ्कारपरायणा द्विरेफावली भ्रमरमाला,
विलासविपिनोपान्ताः क्रीडाकाननपरिसराः, वसन्तोदयः मधुसमयसमागमः, मन्द्र-
ध्वानघनोदयाः गभीरशब्दयुतमेघश्यामाः दिवसाः, मन्दाः मन्थरचारिणः कदम्बा-
निलाः कदम्बवनवायवः, शृङ्गारप्रमुखाः शृङ्गारो वेशभूषादिरतत्प्रधानाः (काम-
सहायाः) नार्यां स्त्रियाम् जितायां परास्तायाम् जिताः परास्ताः । आलम्बने जिते
उद्दीपनानां निरालम्बनतयैव जेयत्वादिति भावः ॥ १३ ॥
अतिविलम्बेन-कालक्षेपेण ।
नारी ही कामका प्रधान अङ्ग है । नारीको जीतलें तो सभी उसके सहायक विफल
प्रयास होकर हार मानेंगे । क्योंकि—
चन्द्रमा, चन्दन, चांदनी रातें, भ्रमरमुखरित विलासवनका प्रान्त, वसन्तोदय, घन-
गर्जनयुक्त दिवस, कदम्बाकार वायु, शृङ्गार प्रमुख कामके मित्र नारीको जीतनेसे जीत
लिये जाते हैं ॥ १३ ॥
इसलिये अधिक विलम्ब करनेकी आवश्यकता नहीं है । महाराज आज्ञा दें ।