प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)
Prabodhachandrodaya of Krishnamishra with Commentary
कृष्णमिश्र यति द्वारा
पृष्ठ 167, कुल 274 में से
संदर्भ में पढ़ेंचतुर्थोऽङ्कः १४६
निष्कम्पनिर्मलगभीरपयोधिधीरा
धीराः परस्य परिवादगिरः सहन्ते ॥ १५ ॥
(सश्लाघमात्मानं निर्वर्ण्य) अहो, अहम् ।
क्लमो न वाचां शिरसो न शूलं
न चित्ततापो न तनोर्विमर्दः ।
न चापि हिंसादिरनर्थयोगः
श्लाघ्या परं क्रोधजयेऽहमेका ॥ १६ ॥
(इत्युभे परिक्रामतः)
टिल्यम् सैव तरङ्गः तेन भीमस्य भयङ्करस्य सान्ध्यकिरणारुणरौद्रदृष्टेः सायङ्कालिक-
सूर्यकराभक्त्वेपरक्तनयनस्य परस्य परिवादगिरः अधिक्षेपवचनानि निष्कम्पनिर्मल-
गम्भीरपयोधिधीराः शान्तस्वच्छातलसागरवद्धैर्यवन्तः वीराः परापमानसहनक्षम-
त्वात् वीराः इव सहन्ते क्षमन्ते । क्रोधिनो रक्ताक्षस्य शत्रोरधिक्षेपवचनानि ते वीरा
एव सहन्ते ये सागरवद्गभीरा भवन्तीति भावः । उक्तश्चायमेवार्थः प्रकारान्तरेण
विष्णुशर्मणा—'न हि तापयितुं शक्यं सागराम्भस्तृणोल्कया' इति ॥ १५ ॥
क्लमो नेति० वाचाम् वाग्व्यापाराणाम् क्लमः ग्लानिः न, शिरसः शूलम् शिरो-
व्यथा न, चित्ततापः मानसिकः क्लेशः न, तनोर्विमर्दः अङ्गभङ्गः न, हिंसादिः अनर्थ-
योगः कुकृत्यसंबन्धः अपि न, (एवम्) एका सहायान्तरनिरपेक्षा अहम् क्षमा
क्रोधजये क्रोधोपरि विजये परम् अत्यर्थम् श्लाघ्या । अन्यत्र जये तदुद्योगे वाग्व्या-
पारेण महती ग्लानिर्भवति, शिरो व्यथते, मनस्ताप उपजायते, शरीरमर्दश्च प्रादु-
र्भास्ते, हिंसा च कर्त्तव्या भवति, परं श्लाघ्याहं क्षमा यथा क्रोधे जितेनैषां दोषाणां
स्पर्शोऽपीति भावः ॥ १६ ॥
सायकालिक सूर्यके सदृश रक्त वर्ण हों, फिर भी उसके क्रोध युक्त वचनोंको निस्तरङ्ग
समुद्रकी तरह धीर रहने वाले वीर सहन करते हैं ॥ १५ ॥
(गौरवसे अपनी ओर देखकर) अहो, धन्य हू मै ।
न वचनको तकलीफ देनी पडती है, न माथा दुखाना पडता है, न हृदयको सन्ताप,
न देह को कष्ट और न हिंसादि अनर्थसे योग, फिर भी मै क्रोधपर विजय प्राप्त करनेके
कारण श्लाघ्य हूं ॥ १६ ॥
(दोनोंका प्रस्थान)