सामग्री पर जाएँ
सर्वकोश
प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)

प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)

Prabodhachandrodaya of Krishnamishra with Commentary

कृष्णमिश्र यति द्वारा

DevanagariHindipublished274 पृष्ठ

पृष्ठ 140, कुल 274 में से

संदर्भ में पढ़ें
पृष्ठ 140

१२२ प्रबोधचन्द्रोदयम्
( उभौ तथा कुरुतः )
( कापालिको भाजनं समादाय ध्यानं नाटयति )
श्रद्धा—भगवन्, सुरया पूरितं भाजनम् । (भअव्वं, सुलाए पूलितं भाअणम्)
कापालिकः—( पीत्वा शेषं भिक्षुक्षपणकयोरर्पयति )
इदं पवित्रममृतं पीयतां भवभेषजम् ।
पशुपाशसमुच्छेदकारणं भैरवोदितम् ॥ २० ॥
( उभौ विमृशतः )
क्षपणकः—अस्माकमार्हतानुशासने सुरापानं नास्ति । (अम्हाणं अलि-
हन्ताणुसासणे सुरापाणं णत्थि )
भिक्षुः—कथं कापालिकोच्छिष्टां सुरां पास्यामि ?
तथा कुरुतः—उपविशत इत्यर्थः ।
भाजनम्-पानपात्रम् ।
सुरया-मद्येन । पूरितम्-भृतम् । ध्यानमात्रया सुरया स्वयमागत्य पूरितं तव
पात्रमित्यर्थः ।
इदमिति० पवित्रम् स्वभावपूतम् अमृतम् सुधोपमम् ( सर्वविधसन्तापहरत्वेन
सुधासाम्यम् ) भवभेषजम् संसारस्यागमनादिप्रवाहस्य जन्मजरामरणादिरूपक्लेश-
परम्पराया इत्यर्थः, भेषजम् औषधरूपं निवर्त्तकम्, भैरवोदितम् सर्वज्ञमहाभैरवोप-
दिष्टम् पशुपाशसमुच्छेदकारणम् पशुर्बद्धो जीवस्तस्य पाशो बन्धस्तस्य समुच्छेदे
आत्यन्तिकविनाशे कारणम् इदम् सुरारूपम् पीयताम् आस्वाद्यताम् । इयमामन्त्र-
णोक्तिः सुरापायिनां पानभाजनग्रहणानन्तरं कर्तव्यतया प्रथते ॥ २० ॥
आर्हतानुशासने-जैनागमे । कापालिकोच्छिष्टाम्-कापालिकपीतावशेषाम् ।
( कापालिक पानपात्र लेकर ध्यानका अभिनय करता है )
श्रद्धा—भगवन्, प्यालेमे शराब भर दी गई ।
कापालिक—( पीकर शेष भिक्षु और क्षपणकको देता है )
यह पवित्र अमृत तथा भवभेषज पीलो, जिसे भैरवने पशुपाशसमुच्छेदका कारण
कहा है ॥ २० ॥
( दोनों सोचने लगते है )
क्षपणक—हमारे जैन मतमें सुरापान नहीं है ।
भिक्षु—कापालिककी उच्छिष्ट सुरा कैसे पिऊंगा ?