सामग्री पर जाएँ
सर्वकोश
प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)

प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)

Prabodhachandrodaya of Krishnamishra with Commentary

कृष्णमिश्र यति द्वारा

DevanagariHindipublished274 पृष्ठ

पृष्ठ 141, कुल 274 में से

संदर्भ में पढ़ें
पृष्ठ 141

तृतीयोऽङ्कः १२३
कापालिकः- (विमृश्य जनान्तिकम्) किं विमृशसि श्रद्धे, पशुत्व-
मनयोर्नाद्याप्यपनीयते । तेनास्मद्रदनसंसर्गदोषादपवित्रां सुरामेतौ मन्येते ।
तद्भवती स्ववक्त्रासवपूतां कृत्वाऽनयोरुपनयतु । यतस्तैर्थिका अपि वदन्ति
'स्त्रीमुखं तु सदा शुचि' इति ।
श्रद्धा—यदगवानाज्ञापयति । (जं भअवं आणवेदि) (पानपात्रं गृहीत्वा
पीतशेषमुपनयति)
भिक्षुः—महाप्रसादः (इति चषकं गृहीत्वा पिबति) अहो सुरायाः
सौन्दर्यम् ।
निपीता वेश्याभिः सह न कतिवारान्सुवदना-
मुखोच्छिष्टास्माभिर्विकचवकुलामोदमधुरा ।
कपालिन्या वक्त्रासवसुरभिसेतां तु मदिरा-
विमृशसि-विचारयसि । अद्यापि-भवत्या कृतालिङ्गनतया कृतार्थने जातेऽपि
पशुत्वम्-मूर्खत्वम् अज्ञानम् । अपनीयते-दूरीक्रियते । अस्मद्रदनसंसर्गदोषात्-मदु-
च्छिष्टताकलङ्कात् । एतौ भिक्षुक्षपणकौ । स्ववक्त्रासवपूताम्-स्ववक्त्रे कापालिकी-
मुखे य आसवः मद्यम् तेन पूतां पवित्राम् । उपनयतु-ददातु । स्ववदने निधाय
पावयित्वोपहरत्वित्यर्थः । तैर्थिकाः-स्मार्त्ताः ।
महाप्रसादः-सुमहाननुग्रहः । सौन्दर्यम् अत्र स्वादप्रकर्षपर्यवसायि ।
निपीता इति० अस्माभिः बौद्धभिक्षुतां बिभ्रद्भिः वेश्याभिः वाराङ्गनाभिः सह
कति वारान् अनेकधा सुवदना मुखोच्छिष्टा सुन्दरी पीतशेषा विकचवकुलामोदमधुरा
विकसितबकुलकुसुमामोदिनी सुरा न पीता आस्वादिता, बहुधा सुरा पीतेति काक्का
ध्वनितम् । कपालिन्याः कापालिक्या अस्याः वक्त्रासवसुरभिम् सुखमदिरासुगन्ध-
कापालिक—(सोचकर, प्रकाशरूपमे) क्या सोचती हो ? श्रद्धे, आज भी इनका
पशुत्व दूर नहीं हुआ है । इसीलिये ये हमारी उच्छिष्ट सुराको अपवित्र मानते हैं ।
इसलिये तुम इसे अपने मुंह लगाकर पवित्र कर दो और इन्हें पिलाओ । क्योंकि
शास्त्रकारोंके कथनानुसार स्त्रीमुख सदा पूत है ।
श्रद्धा—आपकी जो आज्ञा । (पानपात्र लेकर जूठा करके देती है)
भिक्षु—महाप्रसाद है । (प्याला लेकर पीता है) अहा कितनी अच्छी मदिरा है ।
वेश्याओके साथ स्त्रीमुखोच्छिष्ट बकुलसुगन्धित मदिरा कई बार पी थी, किन्तु
कापालिकीके मुखारविन्दसे सुगन्धित इस सुराको नही पानेके कारण हीं देवोने अमृतकी