सामग्री पर जाएँ
सर्वकोश
प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)

प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)

Prabodhachandrodaya of Krishnamishra with Commentary

कृष्णमिश्र यति द्वारा

DevanagariHindipublished274 पृष्ठ

पृष्ठ 139, कुल 274 में से

संदर्भ में पढ़ें
पृष्ठ 139

तृतीयोऽङ्कः १२१

अयि पीनघनस्तनशोभने परित्रस्तकुरङ्गविलोचने ।
यदि रमसे कापालिकीभावैः श्रावकाः किं करिष्यन्तोति ॥ १६ ॥
अहो कापालिकदर्शनमेवैकं सौख्यमोक्षसाधनम् । भो कापालिक,
अहं तव सांप्रतं दासः संवृत्तः। मामपि महाभैरवानुशासने दीक्षय ।
( अहो अरिहन्त, अहो अरिहन्त, कापालिनीए पलससुहं । सुन्दलि, देहि देहि
पुणोवि अङ्कपालीम् । अरे, महन्तो क्खु इन्द्रियविच्चालो उवत्थिदो । ता अत्थि
कोवि उवाओ । किं एत्थ जुत्तम् । भोदु । पिच्छिआए ढंकिस्सम् ।
अयि पीणघणत्थणसोहणि पलितत्थकुलङ्गविलोअणि ।
जइ लमसि कावालिणीभावेहि सावका किं कलिस्र्दि ॥
अहो कावालिअदंसणं जेव्व इदकं रौक्खमोक्खसाहणम् । भो कावालिअ, हग्गे
तुहके सम्पंदं दासो संवृत्तो । मंपि महाभैरवाणुसासणे दिक्खय )
कापालिकः—उपविश्यताम् ।

पिच्छिकया-मयूरपुच्छकृतया मार्गमार्जनसाधनतया जैनैरुपयुक्तया 'पिच्छिका' इति
प्रसिद्धया । छादयामि-पुंव्यञ्जनमिति शेषः ।
अयीति० अयि पीनघनस्तनशोभने पीनौ स्थूलौ घनौ परस्परमिलितौ यौ स्तनौ
ताभ्यां शोभने हृद्ये, परित्रस्तकुरङ्गविलोचने भीतहरिणनयने, यदि (त्वम्) कापा-
लिकीभावैः शृङ्गारचेष्टाभिः रमसे मया सह विहरसि, श्रावकाः जैनमतावलम्बिनो
गृहस्थाः किङ्करिष्यन्ति न किमपीत्यर्थः । कुत्रापि यान्तु श्रावकाः, यत्तेभ्यो रोचेत
कुर्वन्तु तत्ते, दत्तो मया जलाञ्जलिस्तेभ्यो यदि त्वं मया सह शृङ्गारचेष्टाभी रमसे
तदेत्यर्थः ॥ १९ ॥
सौख्यमोक्षसाधनम्—सौख्यमिश्रितस्यापवर्गस्य । रतेरेव मोक्षतया सौख्ययुत
एषां मोक्ष इत्याशयः । महाभैरवानुशासने-शैवागमे । दीक्षय-दीक्षितं कुरु, मन्त्र-
प्रदानेन प्रवेशयेत्यर्थः ।

ओ पीन और स्थूल कुचवाली, भयभीतहरिणलोचने कापालिकी, यदि तुम इसी तरह
मुझे आलिङ्गन देती रही तो मुझे श्रावकोसे क्या लेना देना है ॥ १९ ॥
कापालिकका साक्षात्कार ही सोख्य तथा मोक्षका साधन है । अजी कापालिक, मैं
अबसे तुम्हारा दास हू । मुझे भी महाभैरवानुशासनमे दीक्षित कर लो ।
कापालिक—बैठो । (दोनो बैठते हैं )