सामग्री पर जाएँ
सर्वकोश
प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)

प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)

Prabodhachandrodaya of Krishnamishra with Commentary

कृष्णमिश्र यति द्वारा

DevanagariHindipublished274 पृष्ठ

पृष्ठ 133, कुल 274 में से

संदर्भ में पढ़ें
पृष्ठ 133

तृतीयोऽङ्कः ११५
एतत्करालकरवालनिकृत्तकण्ठ-
नालोच्छलद्बहुलफेनिलबुद्बुदौघैः ।
सार्धं डमड्डमरुडांकृतिकूतभूत-
वर्गेण भर्गगृहिणीं रुधिरैर्धिनोमि ॥ १५ ॥
( इति खड्गमुद्यच्छति )
क्षपणकः—( सभयम् ) महाभाग, अहिंसा परमो धर्मोऽस्ति । ( महा-
भाअ, अहिंसापलमो धम्मो त्थि ) ( भिक्षोरङ्कं प्रविशति )
: भिक्षुः—( कापालिकं वारयन् ) भो भो महाभाग, कौतुकप्रयुक्तवाक्कल-
हेनायुक्तमेतस्मिंस्तपस्विनि प्रहर्तुम् ।
एतदिति०—एतदिति हस्तधृतखड्गनिर्देशः, एतेन मम हस्तस्थितेन करालेन
भीषणेन करवालेन खड्गेन निकृत्तम् खण्डितं यत्कण्ठनालम् गलधमनी ततः उच्च-
लद्भिः ऊर्ध्वप्रवाहिभिः बहुलैः भूरिभिः फेनिलबुद्बुदौघैः वेगप्रवृत्ततया फेनयुक्त-
बुद्बुदसमुदयैः रुधिरैः ( करणभूतैः ) डमड्डमरुडांकृतिभिः शब्दायमानडमरुशब्दैः
आहूतः आकारितः यः भूतानाम् प्रेतानाम् वर्गः गणः तेन सार्धम् सह भर्गगृहिणीम्
शिवाम् धिनोमि तर्पयामि । अनेन भीषणेन कृपाणेन तव शिरसि मया छिद्यमाने
त्वत्कण्ठनालात् प्रवृत्तानि यानि सबुद्बुदफेनिलरुधिराणि तैः डमरुनादाहूतभूतसह-
चरीं शिवां तर्पयामीत्यर्थः । वसन्ततिलकं वृत्तम् ॥ १५ ॥
उद्यच्छति-प्रहर्तुमुत्थापयति ।
अहिंसापरमो धर्मोऽस्ति, तेन मा मां हिंसीरिति निवेदनं फलितम् ।
भिक्षोः-बौद्धतपस्विनः ।
कापालिकं वारयन्-खड्गनिपातनादवरुन्धन् । कौतुकप्रयुक्तवाक्कलहेन-कुतूहल-
प्रवर्त्तितकथोपकथनेन । एतस्मिन्-जैनसाधौ । प्रहर्तुम्-प्रहारं कर्तुम् ।
इस तलवारसे कण्ठ काटकर कण्ठनालसे निकलते हुए फेनिल बुलबुलोंके समुदायसे
डमरुशब्दाहूत भूतगणके साथ शिवभामिनीको तर्पित करता हूँ ॥ १५ ॥
( तलवार उठाता है )
क्षपणक—(भयपूर्वक) महाभाग, अहिंसा परम धर्म है । ( भिक्षुकी गोदमें पैठ जाता है )
भिक्षु—( कापालिकको रोकता हुआ ) अजी महाशय, कौतुकप्रयुक्त बातचीतके
कारण इस तपस्विजनपर प्रहार करना अनुचित है ।