प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)
Prabodhachandrodaya of Krishnamishra with Commentary
कृष्णमिश्र यति द्वारा
पृष्ठ 132, कुल 274 में से
संदर्भ में पढ़ें११४ प्रबोधचन्द्रोदयम्
हरिहरसुरज्येष्ठश्रेष्ठान्सुरानहमाहरे
वियति वहतां नक्षत्राणां रुणध्मि गतीरपि ।
सनगनगरीमम्भःपूर्णां विधाय महीमिमां
कलय सकलं भूयस्तोयं क्षणेन पिबामि तत् ॥ १४ ॥
क्षपणकः—अरे कापालिक, अत एव भणामि केनापीन्द्रजालिना
मायां दर्शयित्वा विप्रलब्धोऽसीति । (अले कावालिअ, अदो जेव्व भणामि
केणावि इन्दजालिणा माअं दंसीअ विप्पलद्धोऽसि त्ति)
कापालिकः—आः पाप, पुनरपि परमेश्वरमैन्द्रजालिकमित्याक्षिपसि ।
तन्न मर्षणीयमस्य दौरात्म्यम् । (खड्गमाकृष्य) तदलमस्य ।
हरिहरेति० अहम् हरिहरौ विष्णुशिवौ सुराः देवा इन्द्रादयः तेषाम् ज्येष्ठान्
वयसाऽधिकान् श्रेष्ठान् प्रभावेणाधिकाँश्च सुरान् देवान् आह्वये आकृष्य नयामि ?
अपि वा वियति आकाशे वहताम् चलताम् नक्षत्राणाम् ताराणाम् गतीः गमनानि
रुणध्मि वारयामि । सनगनगरीम् पर्वतैः पुरैश्चोपेताम् इमाम् महीम् पृथ्वीम् अम्भः-
पूर्णाम् विधाय जलप्लावितां कृत्वा = कलय जानीहि—तत् सकलं तोयम् भूयः पुनः
क्षणेन पिबामि । देवानां सकलप्रहमाहरणे व्योमचारितारागणतिरोधे जगतो
नगनगरगणयुतस्याम्भसा स्थगने तत्पयसः क्षणेन पुनःपाने च प्रभोर्मम प्रभवतः
प्रभावं भावयेति भावः । हरिणीवृत्तम्-तल्लक्षणं यथा—'नसमरसला गः षड्वेदैर्हयै-
र्हैरिणी मता' इति ॥ १४ ॥
अत एव—तवेदृशप्रभावदर्शनक्षमत्वादेव । इन्द्रजालिना-मायादर्शननिपुणेनै-
न्द्रजालिकेन । मायाम्-इन्द्रजालम् । विप्रलब्धः-वञ्चितः । न मर्षणीयम्-न क्षन्त-
व्यम् । दौरात्म्यम्-दुष्टता ।
हरिहर प्रभृति देवश्रेष्ठोंको मैं बुला सकता हूँ, आकाशचारी नक्षत्रोंकी गति रोक दे
सकता हूँ । पर्वत तथा गांवों से पूर्ण इस नगरीको जलपूर्ण बनाकर उस सारे पानीको देखो,
मैं तुरत पी जाता हूँ ॥ १४ ॥
क्षपणक—अरे कापालिक, इसीसे तो कहता हूँ कि किसी ऐन्द्रजालिकने माया
दिखाकर ठग लिया है ।
कापालिक—पाप, फिर भी तू परमेश्वरको ऐन्द्रजालिक बताकर उनके ऊपर आक्षेप
करता है । अब तुम्हारी दुष्टता नहीं सही जाती है । (तलवार खींचकर) अब इसका—