सामग्री पर जाएँ
सर्वकोश
प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)

प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)

Prabodhachandrodaya of Krishnamishra with Commentary

कृष्णमिश्र यति द्वारा

DevanagariHindipublished274 पृष्ठ

पृष्ठ 134, कुल 274 में से

संदर्भ में पढ़ें
पृष्ठ 134

११६ प्रबोधचन्द्रोदयम्
कापालिकः- ( खड्गं प्रतिसंहरति )
क्षपणकः- ( समाश्वस्य ) महाभागो यदि संहृतघोररोषावेशः संवृत्त-
स्ततोऽहं किमपि प्रष्टुमिच्छामि । (महाभाओ जदि संहलिदघोललोसावेसो
संवृत्तो तदो अहं किंपि पुच्छिदुमिच्छेमि )
कापालिकः-पृच्छ ।
क्षपणकः-श्रुतो युष्माकं परमो धर्मः । अथ कीदृशः सौख्यमोक्षः ।
( सुदो तुम्हाणं परमो धम्मो । अध केदिसो सोक्खमोक्खो )
कापालिकः-शृणु-
दृष्टं कापि सुखं विना न विषयैरानन्दबोधोज्झिता
जीवस्य स्थितिरैव मुक्तिरुपलावस्था कथं प्रार्थ्यते ।
प्रतिसंहरति-नियच्छति ।
संहृतघोररोषावेशः-नियन्त्रितभयानककोपावेगः ।
सौख्यमोक्षः-आनन्दस्वरूपा मुक्तिः ।
दृष्टं कापीति० क्वापि कुत्रापि विषयैः स्रक्चन्दनवनितादिभिः विना अन्तरेणं
सुखम् आनन्दः न दृष्टम् कारणस्यासत्त्वे कार्याभावस्य स्वाभाविकतयाऽऽनन्दकारण-
त्वेनाभिमतानां स्रक्चन्दनादीनामभावे सुखमशक्यसम्भावमिति भावः । ननु
मोक्षो नानन्दरूपः किन्तु दुःखाभावरूप एव मोक्षः समागतो नैयायिकैस्तत्राह-
उपलावस्था प्रस्तरभावेनावस्थानं जीवस्य स्थितिरैव ( मोक्षः ) सा कथं प्रार्थ्यते
केन प्रकारेण पुमर्थो भवति, चेतनस्याचेतनत्वापत्तिर्हानिरेव न लाभ इति तादृश्या
मुक्तेरप्रार्थनीयत्वमिति भावः । उपहसितोऽयं मोक्षो नैषधीये श्रीहर्षेण-'मुक्तये यः
शिलात्वाय शास्त्रमूचे सचेतसाम् । गौतमं तमवेक्ष्यैव यथावित्थ तथैव सः' इति ।
कापालिक- (तलवारको समेटता है )
क्षपणक- ( आश्वस्त होकर ) यदि आप रोषके वेगको रोक चुके हों तो मैं कुछ पूछना
चाहता हूँ।
कापालिक-पूछो ।
क्षपणक-आपके परम धर्मके विषयमें तो सुन लिया, सौख्यमोक्ष आपका कैसा है ?
कापालिक-सुनो-
विषयोंके बिना आनन्द नहीं प्राप्त होता है और शिलाभावरूप मोक्ष जीव क्यों