प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)
Prabodhachandrodaya of Krishnamishra with Commentary
कृष्णमिश्र यति द्वारा
पृष्ठ 130, कुल 274 में से
संदर्भ में पढ़ें११२ प्रबोधचन्द्रोदयम्
पश्यामि योगाञ्जनशुद्धचक्षुषा
जगन्मिथो भिन्नमभिन्नमीश्वरात् ॥ १२ ॥
क्षपणकः—क एष कापालिकं व्रतं पुरुषो धारयति । तदेनमपि
पृच्छामि । ( उपसृत्य ) अरेरे कापालिक, नरास्थिमुण्डमालाधारक, कीदृ-
शस्तव धर्मः कीदृशस्तव मोक्षः ? ( को एसो कावालिअव्वरं पुलिसो धालेदि ।
ण णं वि पुच्छिस्सम् । अलेले कावालिअ, णलत्थिमुण्डमालाधारिअ, कीदिसो तुम्हे
धम्मो, कीदिसो तुम्हे मोक्खो ? )
कापालिकः—अरे क्षपणक, धर्मं तावदस्माकमवधारय ।
मस्तिष्कान्त्रवसाभिपूरितमहामांसाहुतीर्जुह्वतां
वह्रौ ब्रह्मकपालकल्पितसुरापानेन नः पारणा ।
सद्यः कृत्तकठोरकण्ठविगलत्कीलालधारोज्ज्वलै-
रच्र्यो नः पुरुषोपहारबलिभिर्देवो महाभैरवः ॥ १३ ॥
पश्यामि । उच्चावचोऽयं प्रपञ्चः स्वयं परस्परभिद्यमानोऽपि न परमेश्वराद्भिद्यते यथा
मुद्रिकाकङ्कणादेरन्योन्यभेदेऽपि सुवर्णादभिन्नता तद्वद् इति पश्यामीति भावः ॥१२॥
कापालिकम्-कपालीशिवस्तद्देवताकम् । अवधारय-जानीहि ।
मस्तिष्कान्तेति० मस्तिष्कम् कपालान्तर्गतं स्निग्धं द्रव्यम् , अन्त्राणि सिराः, वसा
मज्जा, ताभिः अभिपूरितैः आधारितैः महामांसैः नरमांसैः वह्नौ आहुतीर्जुह्वताम्
होमं कुर्वताम् नः अस्माकम् ब्रह्मकपाले ब्राह्मणजातिनरमुण्डे कल्पितायाः उपनी-
तायाः सुरायाः मदिरायाः पानेन पारणा व्रतसमाप्तिः भवतीति शेषः, नराणां
मांसानि तत् कपालगतस्निग्धद्रव्यतदन्त्रतन्मज्जभिराघार्य वह्नौ जुह्वतो वयं ब्राह्मण-
जातिनृमुण्डे स्थापयित्वा सुरया पीतया व्रतं समापयाम इत्यर्थः । ( किञ्च ) सद्यः-
कृत्तेभ्य तत्क्षणखण्डितेभ्यः कठोरकण्ठेभ्यः सबलजनदृढगलेभ्यः विगलताम् क्षरताम्
जगत्को ईश्वरसे भिन्न तथा अभिन्न देखता हू ॥ १२ ॥
क्षपणक—यह कौन पुरुष कापालिक व्रत धारण किये हुए है ? इससे भी पूछूं ।
( समीप जाकर ) अरे कापालिक, नरास्थिमुण्डमालाधारी, कैसा तुम्हारा धर्म तथा कैसा
तुम्हारा मोक्ष है ?
कापालिक—अरे क्षपणक, हमारा धर्म सुनले—
मस्तिष्क, आंत, मज्जा, आदिसे युक्त नरमांसकी वह्निमें आहुति कर ब्रह्मकपालस्थित
सुरापानसे पारणा होती है । सद्यः खण्डित कण्ठसे निकलते हुए शोणितकी धार वाली
नरबलिसे हम महाभैरवकी आर्चा करते है ॥ १३ ॥