सामग्री पर जाएँ
सर्वकोश
प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)

प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)

Prabodhachandrodaya of Krishnamishra with Commentary

कृष्णमिश्र यति द्वारा

DevanagariHindipublished274 पृष्ठ

पृष्ठ 129, कुल 274 में से

संदर्भ में पढ़ें
पृष्ठ 129

तृतीयोऽङ्कः १११
तस्माल्लोकद्वयविरुद्धार्हतमताद्वरं सुगतमतमेव साक्षात्सुखावहमति-
रमणीयं पश्यामः ।
शान्तिः—सखि, अन्यतो गच्छावः ।
करुणा—एवं भवतु । ( एवं भोदु ) । ( इति परिक्रामतः )
शान्तिः—( पुरो विलोक्य ) एष पुरस्तात्सोमसिद्धान्तः । भवतु ।
अत्रापि तावदनुसरावः ।
( ततः प्रविशति कापालिकरूपधारी सोमसिद्धान्तः )
सोमसिद्धान्तः—( परिक्रम्य )
नरास्थिमालाकृतचारूभूषणः
श्मशानवासी नृकपालभोजनः ।
क्षमते तथैव जीवोऽपि शरीरपरिणामतया दूरस्थवस्तुभिः सहसन्निकर्षमनासादयन्न
तेषां ज्ञाने कथमपि शक्तः स्यादिति परमार्थः ॥ ११ ॥
लोकद्वयविरुद्धात्—लोकद्वयम् आगमिकानागमिकरूपसमुदायद्वितयम् । ततो
विरुद्धात् । यद्वा लोकद्वयम् इह लोकपरलोकौ जनानां नास्ति तावदिहलोकः पिशाच-
रूपताऽऽस्थानात्, न वा परलोकोऽप्यस्ति, सततोऽध्वगमनरूपक्लेशस्य भोक्तृ-
व्यत्वात् । सुगतम्-बुद्धमतम् । साक्षात्सुखावहम्-सद्य आनन्दकरम् । सोमसि-
द्धान्तः-कापालिकमतम् ।
नरास्थिमालेति० नराणाम् मनुष्याणाम् अस्थनाम् मालया स्रजा कृतं विहितं भूषणं
यस्य तादृशः मनुष्यास्थिमालाभूषितः श्मशानवासी पितृवसति निवासशीलः नृक-
पालभोजनः नरमुण्डे भोजनरसिकः ( एवंविधः कापालिकदीक्षितोऽहम् ) योगाञ्जन-
दिव्यचक्षुषा समाधिरूपाञ्जनप्रयोगवशलब्धालौकिकशक्तिशालिना नयनेन मिथो-
भिन्नम् परस्परविरुद्धम् जगत् सांसारिकं पदार्थजातम् ईश्वरादभिन्नम् अव्यतिरेकि
इसलिये इहलोक तथा परलोकसे विरुद्ध आर्हत मतकी अपेक्षा साक्षात्सुखप्रद बौद्ध मत
ही अच्छा दीख पड़ता है ॥
शान्ति—सखि, दूसरी ओर चलें ।
करुणा—अच्छी बात है । ( चलती हैं )
शान्ति—( आगे देखकर ) यह आगे वाला सोमसिद्धान्त है, अच्छा, यहां भी चलें ।
( कापालिक रूपधारी सोमसिद्धान्तका प्रवेश )
सोमसिद्धान्त—( चलकर )
नरास्थिमालाका भूषण पहने, नृकपालभक्षी तथा श्मशानवासी मैं योगाञ्जन सिद्ध दृष्टिसे