पाटीगणित (श्रीधराचार्य - प्राचीन संस्कृत टीका एवं प्रो. कृपाशंकर शुक्ल सविस्तार व्याख्या)
Patiganita of Sridharacharya with Commentary
श्रीधराचार्य (सम्पादक: प्रो. कृपाशंकर शुक्ल) द्वारा
पृष्ठ 144, कुल 337 में से
संदर्भ में पढ़ेंमिश्रकव्यवहारः ८६
दिनग्रहणं चोपलक्षणार्थं, तेन परिच्छिन्नकालाध्वक्रियानिर्वाहनानियन्त्रितदानैर्नियन्त्रित-
ग्रहणैर्वा पुरुषैर्मध्या(देव) कालाद्यंशेन एकैकशो द्विशस्त्रिशोऽन्यथा वा व्यावर्तमानैस्तदानीमविक-
लमेव यदा देयम् तदा दानविभागवैषम्यप्राप्तौ१ केन कियद्दातव्यं ग्राह्यमपि चाऽविकलमेव यथा
काले ध्वनिक्रियायां वा संभूय प्रवृत्तानां पुंसां येन कालाद्यंशेन कश्चित् कश्चिद्व्यावर्तते कालाद्यंशा
यथोपपन्नपौर्वापर्यानुसारे(ण) व्यवस्थापिता निजान्तरपूर्वकालाद्यंशहीनाः समस्तपुरुषदेयमिश्रफल-
गुणिताः पृथक् पृथग्व्यावृत्तपुरुषशेषतात्कालिकसङ्ख्याभक्ता यथोपपन्नरूपा यावत्सम्भवं पूर्व-
पूर्वपूर्वैः पूर्वपूर्वाभ्यां पूर्वेण च संयुता यावत्सपूर्वो२ न केनचिदिति । तत्तत्कालाद्यंशपर्यन्तव्या-
वृत्तपुरुषसङ्ख्याकृतपृथक्पृथग्गुणाः स्थानानुक्रमेणान्तराले व्यावृ