सामग्री पर जाएँ
सर्वकोश
पाटीगणित (श्रीधराचार्य - प्राचीन संस्कृत टीका एवं प्रो. कृपाशंकर शुक्ल सविस्तार व्याख्या)

पाटीगणित (श्रीधराचार्य - प्राचीन संस्कृत टीका एवं प्रो. कृपाशंकर शुक्ल सविस्तार व्याख्या)

Patiganita of Sridharacharya with Commentary

श्रीधराचार्य (सम्पादक: प्रो. कृपाशंकर शुक्ल) द्वारा

DevanagariHindipublished337 पृष्ठ

पृष्ठ 143, कुल 337 में से

संदर्भ में पढ़ें
पृष्ठ 143

८८ मिश्रकव्यवहारः
रूपषट्कं तयोक्तस्य षोडशकस्यार्धमष्टौ दिनपञ्चकगुणानि चत्वारिंशद्दत्तानि भवन्ति; तद्वैत-
ञ्चत्वारि दिनानि प्रत्यहं दश दश ददतोऽष्टौ^१ वा दिनानि प्रत्यहं पञ्च पञ्च ददतो धनेन साम्यं
भजते इति न्याय्यमेवार्धदानम् । शेषस्य पूर्वस्मात् शिष्टस्य मार्गस्वप्रमाणानुसारागतं परिपूर्ण-
मेवेति ।
उदाहरणम्—
कुतपे योजनान्यष्टौ नीयमाने धृते सति ।
शतद्वयेन तैलस्य पलानां पञ्चभिः पणैः ॥ ८४ ॥
तदधः सुशिरं जातं तेन तैलं क्रमाच्च्युतम् ।
पलानां विंशतिः शेषो भाटकं किं प्रदीयताम् ॥ ८५ ॥
पञ्चभिः पणैरष्टौ योजनानि तैलपलशतद्वयपूर्णे^२ स्नेहभाण्डे नेतुं नियमितेऽधश्छिद्रत्वात्पथि
क्रमगलत्तैले गन्तव्यदेशप्रापिते गलितशेषं त