पाशुपत सूत्र (भगवान् लकुलीश - कौण्डिन्य प्रणीत पञ्चार्थभाष्य सहित पाशुपत दर्शन मूल)
Pashupata Sutras of Lakulisha with Panchartha Bhashya
भगवान् लकुलीश (भाष्यकार: कौण्डिन्य) द्वारा
पृष्ठ 71, कुल 166 में से
संदर्भ में पढ़ें६४ सभाष्ये पाशुपतसूत्रे
आधीयन्ते, विषये वर्तन्त इत्यर्थः । देवाः पितरश्च । तत्र देवा इति
ऋभुषु ब्रह्मादिपिशाचान्तेषु मनुष्यतिर्यग्योनिवर्जे सामान्यसंज्ञा ।
विधिवत् । पितर इति विशेषसंज्ञा । भस्मस्नानादिवदित्यर्थः ।
ब्राह्मणदेवदत्तादिवच्च । अत्राह—सामान्यविशेषसंज्ञाभिधाने किं प्रयो-
जनमिति चेत् ? । तदुच्यते--त्रिविधस्यापि कार्यस्य रुद्रे हार्यधार्य-
कार्यज्ञापनाथंम् । किञ्च कालक्रियास्वाहास्वधामन्तान्यत्वदर्शनाद्
देवपितृयजनापहृतचित्तव्यावर्तनार्थत्वाच्च । तस्मादन्यानन्यत्वेनापि
व्याख्यानमदुष्टम् । चशब्दोऽभ्यधिकत्वे । देवपितृवत् सत्त्वस्य
त्रिविधस्यापि कार्यस्येश्वरे प्रतिष्ठाप्रसवसंयोगवियोगसुखमोहवन्धमोक्ष-
दातृत्वेन च स एव परं कारणं समस्तत्वेनाप्यते इत्येवं चशब्दोऽभ्यधि-
कत्वे द्रष्टव्यः । तस्माद् दुःखान्तार्थिना ते देवपितरो न यष्टव्याः ।
तदर्थं भगवान् महेश्वरो यष्टव्य इत्यर्थः ॥ ११ ॥
अत्रेदमानुषङ्गिकं कार्यकारणप्रकरणं परिसमाप्तम् ॥
अत उत्तरस्य विधिप्रकरणस्य सत्यपि पदार्थवैलक्षण्ये साध्य-
साधनभावाद् यजनेन सह सम्बन्धं करिष्यामः । कस्मात् ? । इह
पुरस्तादुक्तम्—उभयथा यष्टव्यः, देववत् पितृवच्च (अ० २, सू ९-१०) ।
यत्र पूर्वं देवपितृभ्यो व्यावर्तितया भक्त्या महेश्वरं यजतोऽनव-
गमात्, स्वात्मेश्वरसंयोगं योगं प्राप्स्यसि तत्फलं वक्ष्यामः ।
येन च बलेनोपबृंहितस्य तत्रैव यजने उद्योगोऽभिनिवेशश्च भविष्यति
तद् बलं वक्ष्यामः । तद्वलप्राप्तौ चोपायं वक्ष्यामः । तदुच्यते—
हर्षप्रमादी ॥ १२ ॥
इति । अथवाऽन्यो दूरस्थः सम्बन्धः । यस्मादुच्यते—यस्य
येनार्थसम्बन्धो दूरस्थस्यापि तेन तदर्थोत्पत्तिः समाना । आनन्तर्येऽपि