पाशुपत सूत्र (भगवान् लकुलीश - कौण्डिन्य प्रणीत पञ्चार्थभाष्य सहित पाशुपत दर्शन मूल)
Pashupata Sutras of Lakulisha with Panchartha Bhashya
भगवान् लकुलीश (भाष्यकार: कौण्डिन्य) द्वारा
पृष्ठ 119, कुल 166 में से
संदर्भ में पढ़ें११२ सभाष्ये पाशुपतसूत्रे
इति । तस्य सुखदुःखेच्छाद्वेषप्रयत्नचैतन्यादिभिर्लिङ्गैरधिगमः क्रियत
इत्यर्थः ॥ ३ ॥
आह--किं लक्षणत्रयमेवास्य युक्तस्योच्यते ? । न । यस्मादाह—
अजः ॥ ४ ॥
अत्र अज इत्यर्थान्तरप्रादुर्भावप्रतिषेधोऽभिधीयते । अत्रार्थान्तरं
नाम शब्दस्पर्शरूपरसगन्धान्तरम् अध्ययनध्यानस्मरणादयः (च) । तेषु
न जायत इति अजः ॥ ४ ॥
आह—किं लक्षणचतुष्कमेवास्य युक्तस्योच्यते ? । न ।
यस्मादाह—
मैत्रः ॥ ५ ॥
अत्र मैत्र इति समतायां भवति । यथा मैत्र आदित्यः ।
सर्वभूतस्थिते च महेश्वरे स्थितचित्तः इच्छाद्वेषविनिवृत्तोऽप्रवृत्तिमान्
मैत्र इत्युच्यते । तस्मात् कार्यकारणवानेव चित्तस्थितिसमकालमेवा-
सङ्गादिभावेन जायते ॥ ५ ॥
आह—अथ कथं पुनरेतद् गम्यते । यथा कार्यकारणवानेव चित्त-
स्थितिसमकालमेवासङ्गादिभावेन जायते ? । उच्यते—गम्यते ।
यस्मादाह—
१. 'अप्रादुर्भाविचित्तत्वम् अजत्वम्' । गणकारिकाव्याख्या page 16.