पाशुपत सूत्र (भगवान् लकुलीश - कौण्डिन्य प्रणीत पञ्चार्थभाष्य सहित पाशुपत दर्शन मूल)
Pashupata Sutras of Lakulisha with Panchartha Bhashya
भगवान् लकुलीश (भाष्यकार: कौण्डिन्य) द्वारा
पृष्ठ 118, कुल 166 में से
संदर्भ में पढ़ेंपञ्चमोऽध्यायः । १११
“ शङ्खदुन्दुभिनिर्घोषैर्विविधैर्गीतवादितैः ।
क्रियमाणैर्न बुध्येत एतद् युक्तस्य लक्षणम् ॥ ”
इति ॥ २ ॥
आह—किं लक्षणद्वयमेवात्र युक्तस्योच्यते ? । न । यस्मादाह—
नित्यात्मा ॥ ३ ॥
अत्र नित्यत्वविशेषणेनानित्यत्वं निवर्तते। नित्यत्वं नाम सति विभुत्वे
पुरुषेश्वरयोर्मनसा सह गतस्यात्मताभावस्य वृत्त्याकारस्य विषयं प्रति क्रमो-
ऽक्षोपोऽवस्थानं वृक्षशकुनिवत् । तस्मिन् निर्वृत्ते महेश्वरे युक्तो नित्य
इत्युच्यते । आत्मा इति क्षेत्रज्ञमाह । कथं गम्यते ? । चित्तस्थि-
त्युपदेशाद् योगार्थं विद्याचरणोपदेशाद् असङ्गयोगियुक्तात्माजमैत्रादीना
चेतने सम्भवात् , न त्वचेतनेषु कार्यकारणप्रधानादिषु । तस्मिंश्चेतने
आत्मशब्दः । आत्मा च कस्मात् ? । अततीत्यात्मा । आपूर्य कार्य-
करणं विषयांश्रेतयतीत्यात्मा । उक्तं हि—
“ यदाप्नोति यदादत्ते यच्चात्ति विषयान् पुनः ।
यच्चास्य सततं भावः तस्मादात्मेति संज्ञितः ॥ ”
स च श्रोता स्प्रष्टा द्रष्टा रसयिता घ्राता मन्ता वक्ता बोद्धा इत्येवमादिः ।
उक्तं हि—
“ पुरुषश्चेतनो भोक्ता क्षेत्रज्ञः पुद्गलो जनः ।
अणुर्वेदोऽमृतः साक्षी जीवात्मा परिभूः परः ॥ ”
... गणकारिकाव्याख्या page 16.