पाशुपत सूत्र (भगवान् लकुलीश - कौण्डिन्य प्रणीत पञ्चार्थभाष्य सहित पाशुपत दर्शन मूल)
Pashupata Sutras of Lakulisha with Panchartha Bhashya
भगवान् लकुलीश (भाष्यकार: कौण्डिन्य) द्वारा
पृष्ठ 114, कुल 166 में से
संदर्भ में पढ़ेंचतुर्थोऽध्यायः । १०७
नावर्तत इत्यर्थः । आङ् इति स्वशास्त्रोक्तमर्यादामधिकुरुते, अभिविध्यर्थं
च । ये चानेन विधिनाक्षपिताज्ञानकलुषपापमायादयः क्षीणाः ते-
पुनः पुनरावर्तन्ते । न तैः सह संयोगो भवति । न चापरं जन्म
प्रतिपद्यत इत्यर्थः* ॥ २० ॥
[एवमध्यायपरिसमाप्तिं कृत्वा युक्तं वक्तुम्—
अत्रे॒दं ब्रह्म॑ जपेत् ॥ २१ ॥
अस्य पूर्वोक्तोऽर्थः ॥ २१ ॥]
आह—किं पुनस्तद् ब्रह्म ? । तदुच्यते—कारणादिभावेनो-
क्तस्य भगवत एकत्वं साधको ज्ञात्वा तत्साधनमारभते—
तत्पुरुषाय विद्महे ॥ २२ ॥
अत्र पूर्वं कारणत्वबहुत्वनानात्वेनोपदिष्टस्य परामर्शः तद् इति ।
पुरुष इति पौरुष्यानुपूरणाच्च पुरुषः । पौरुष्यमस्यानेकेषु रूपेष्वव-
स्थानात् । तत्संस्थानि रूपाणि अघोरादीनि । तत्पुरुषायेति चतुर्थी ।
यथा ग्रामाय तत्त्वं ज्ञातुमिच्छति, तथा पुरुषाय तत्त्वं ज्ञातुमिच्छति ।
विद्महे इति । विद ज्ञाने । विद्महे जानीमहे उपलभामह
इत्यर्थः ॥ २२ ॥
- Seems some lines are missing .
१. “सर्वविद्यादिकार्याणां व्याप्ताधिष्ठातृत्वं पूरणं, यथेप्सितानन्तशरीरादिकरणशक्तिः
पौरुष्यं, तदुभयं भगवतः पुरुषत्वमुच्यते ।” गणकारिकाव्याख्या page 11.