पाशुपत सूत्र (भगवान् लकुलीश - कौण्डिन्य प्रणीत पञ्चार्थभाष्य सहित पाशुपत दर्शन मूल)
Pashupata Sutras of Lakulisha with Panchartha Bhashya
भगवान् लकुलीश (भाष्यकार: कौण्डिन्य) द्वारा
पृष्ठ 112, कुल 166 में से
संदर्भ में पढ़ेंचतुर्थोऽध्यायः । १०५
आह—निन्द्यमानस्याचरतोऽनिन्दितं कर्म भवतीति क्व सिद्धम् ? ।
तदुच्यते—इह । यस्मादाह—
सर्वविशिष्टोऽयं पन्थाः ॥ १६ ॥
अत्र अयम् इति प्रत्यक्षे । यथायं पुरुषः ॥ १६ ॥
यथाविधिश्चरिरिति याः क्रियाः, अत्राधिकृतस्यानिन्दितं कर्म
भवतीत्याह भगवान्—
सत्पथः ॥ १७ ॥
कस्मात् ? । रुद्रसमीपप्रापणसामर्थ्यात् । अनावृत्तिप्रापण-
सामर्थ्याच्चाविकलः । तस्मात् सर्वज्ञवचनाविसंवादित्वाच्चायं सत्पथ
इत्यर्थः ॥ १७ ॥
आह—किमन्यत्र पन्थानो न सन्ति इति ? । उच्यते—सन्ति ।
किन्तु,
कुपथास्त्वन्ये ॥ १८ ॥
अत्र कु कुत्सायां भवति । कस्मात् ? । कुशब्दप्रयोगाद् गम्यते ।
कुपुरुषवत् । पन्थानो विधय उपाया इत्यर्थः । तुशब्दोऽनावृत्त्युत्कर्षे ।
अन्ये इति। गृहस्थब्रह्मचारिवानप्रस्थभिक्षुपाषण्डिनां पन्थानः। ते कुपथाः
॥ १८ ॥
न । आह—अयमेव सत्पथः, शेषाः कुपथा इति क्व सिद्धम् ? ।
किं वाऽस्य सत्पथत्वम् ? । शेषाणां वा कुपथत्वं किमिति ? । उच्यते—
इह । यस्मादाह--
14