पाशुपत सूत्र (भगवान् लकुलीश - कौण्डिन्य प्रणीत पञ्चार्थभाष्य सहित पाशुपत दर्शन मूल)
Pashupata Sutras of Lakulisha with Panchartha Bhashya
भगवान् लकुलीश (भाष्यकार: कौण्डिन्य) द्वारा
पृष्ठ 111, कुल 166 में से
संदर्भ में पढ़ें१०४ सभाष्ये पाशुपतसूत्रे
अनिन्दा इत्यकारो निन्दितत्वं प्रतिषेधति । अनिन्दा अकुर्त्सा
अगर्हा इत्यर्थः । अत्र तस्माच्छब्दः पूर्वोत्तरं चापेक्षते । तत्र
पूर्वाकाङ्क्षायां तावत् कृत्स्ना निन्दा प्रकरणगुणवचने(?)। यस्मादिन्द्रस्यापि
शुद्धिवृद्धिकारिणी आत्मापदेशेन परापदेशेन च भगवता असन्मान-
चरिर्गुणीकृता तस्मादित्यर्थः । आह—निराकाङ्क्षानिर्देशात् सन्देहो
यथा यथा वर्णितं तथा तथा च व्याख्यातम् (?) ॥ १३ ॥
निन्दाया अनिन्दितत्वं गुणं ज्ञात्वा साधकेन किं कर्तव्यम् ? ।
तदुच्यते—
निन्द्यमानश्चरेत् ॥ १४ ॥
अत्र निन्दा पूर्वोक्ता । निन्द्यमानेनैव निन्दायाः वर्तमानकाल
इत्यर्थः । चरेद् इत्यार्जनमधिकुरुते । धर्मार्जने नियोगे च । संशयान्य-
त्वाच्चापुनरुक्तश्चरिशब्दो द्रष्टव्यः ॥ १४ ॥
अत्रेदमानुषङ्गिकम् असन्मार्गचरिप्रकरणं परिसमाप्तम् ॥
आह—निन्द्यमानश्चरेदित्युक्त्वा आद्यं विधानमाचरतः को-
ऽर्थो निष्पद्यते ? । निष्पन्नेन वा कथमभिलप्यते ? । तदुच्यते—
अनिन्दितकर्मा ॥ १५ ॥
अत्र चर्योत्तरसम्बन्धाद् गम्यते यदेतदनिन्दितं कर्म धर्मः
स एव निन्द्यमानस्याचरतो निष्पद्यते । अतः अनिन्दितकर्मा
भवतीत्यर्थः ॥ १५ ॥