पाशुपत सूत्र (भगवान् लकुलीश - कौण्डिन्य प्रणीत पञ्चार्थभाष्य सहित पाशुपत दर्शन मूल)
Pashupata Sutras of Lakulisha with Panchartha Bhashya
भगवान् लकुलीश (भाष्यकार: कौण्डिन्य) द्वारा
पृष्ठ 110, कुल 166 में से
संदर्भ में पढ़ेंचतुर्थोऽध्यायः । १०३
दत्तं हुतं स्तुत्यादिनिष्पन्नं सुकृतं तदिष्टम् । यदमन्त्रपूर्वकेणैव तत्
पूर्तम् ॥ ११ ॥
इन्द्रेणासुरेभ्यः केनोपायेन दत्तमिति ? । उच्यते—
मायया सुकृतया समविन्दत ॥ १२ ॥
क्राथनस्पन्दनादिप्रयोगैः धिक्कृतस्य निद्राविष्टो वायुसंस्पृष्टो
मन्दकारी असम्यक्कारी असम्यग्वादीति योऽयं दुष्टशब्दोऽभियोगशब्दश्च
निष्पद्यते, तस्मिन्ननृते मायासंज्ञा । मानसकायिकाभियोगे च । मायया
इति तृतीया । सुकृतया इति । सु प्रशंसायाम् । तया सुकृतया सम्यक्
प्रयुक्तयेति साधकसाधनप्राधान्यम् । अविन्दत इति प्राप्तौ प्राधान्ये च ।
स तेषामिष्टापूर्तमादत्तेति । उक्तं हि—
“आक्रोशमानो नाक्रोशेन्मन्युरेव तितिक्षति ।
स तेषां दुष्कृतं दत्त्वा सुकृतं चास्य विन्दति ॥”
इति ॥ १२ ॥
आह—उक्तम इन्द्रः । स तेषामिष्टापूर्तमित्युक्ते परापदेशेनास्य
वृत्तिर्निर्गुणीकृता । अथात्मापदेशोऽत्र किमस्ति नेति ? । उच्यते—
अस्ति । यस्मादाह—
निन्दा ह्येषाऽनिन्दा तस्मात् ॥ १३ ॥
अत्रावमानपरिभवाद्या निन्दा । कुत्सा गर्हा इत्यर्थः । हि-
शब्दो निन्दोत्तमौत्कर्षोपक्षेपे द्रष्टव्यः । उत्तमाधिकाराद् गम्यते ।
एषा इत्यतिक्रान्तापेक्षणे । अवमानपरिभवपरिवादाद्या निन्देत्यर्थः ।