सामग्री पर जाएँ
सर्वकोश
पाशुपत सूत्र (भगवान् लकुलीश - कौण्डिन्य प्रणीत पञ्चार्थभाष्य सहित पाशुपत दर्शन मूल)

पाशुपत सूत्र (भगवान् लकुलीश - कौण्डिन्य प्रणीत पञ्चार्थभाष्य सहित पाशुपत दर्शन मूल)

Pashupata Sutras of Lakulisha with Panchartha Bhashya

भगवान् लकुलीश (भाष्यकार: कौण्डिन्य) द्वारा

DevanagariSanskritpublished166 पृष्ठ

पृष्ठ 109, कुल 166 में से

संदर्भ में पढ़ें
पृष्ठ 109

१०२ सभाष्ये पाशुपतसूत्रे
ब्रह्मादीनाम् । किन्तु स्वर्गिणां मध्ये ऐश्वर्येण विद्यया आज्ञया चेत्यतः
श्रेष्ठत्वाद्विन्द्रः । वाशब्दः सम्भावने । अन्यैरपि देवश्रेष्ठैरिदं
विधानमाचीर्णम् । कुतस्तर्हि युष्मदादिभिर्मनुष्यमात्रैः ? । तस्मात्
सम्भाव्योऽयमर्थः । आह—कदा चीर्णमिति ? । उच्यते—अग्रे ।
अत्राग्र इति पूर्वकालमधिकुरुते । कु¹शिकेशाने²सम्बन्धात् प्राक् ।
प्रथमममरैश्चीर्णम् । कृतत्रेताद्वापरादिषु युगेष्वित्यर्थः । आह—
केष्वाचीर्णमिति ? । उच्यते—असुरेषु । अत्रासुरा नाम सुरेतराः
स्तेययुक्ताः । प्राणापहरणाद् वा असुराः प्रजापतिपुत्रा विज्ञेयाः ।
असुरेष्विति सामीपिकं सन्निधानम् । असुरसमीपे असुराभ्याशे
असुराणामध्यक्ष इत्यर्थः । आह—किं तदिति ? । उच्यते—पाशुपतम् ।
अत्र पशुपतिनोक्तपरिग्रहाधिकारेषु वर्तत इति पाशुपतम् । पशुपतिर्वास्मिन्
चिन्त्यत इति पाशुपतम् । पशुपतिप्रापकत्वाद् वा पाशुपतम् ।
पाशुपतमिति समस्तस्य सम्पूर्णस्य विधानस्यैतद् ग्रहणम् । कस्मात् ? ।
व्यक्तलिङ्गपूर्वकत्वाद्व्यक्तादिक्रमस्य । तस्मात् कृत्स्नमिदमेव विधान-
माचीर्णमिन्द्रेण दुःखान्तार्थिना शुद्धिवृद्ध्यर्थम् । धर्मबाहुल्यात्
सुराणां शुन्त्याचीर्णम् । अचरदित्यतीतः कालः । अतीते काले
चीर्णवानित्यर्थः ॥ १० ॥
आह—इन्द्रेणासुरेष्वाचरता किं फलं प्राप्तम् ? । तदुच्यते—
स तेषामिष्टापूर्तमादत्त ॥ ११ ॥
स इतीन्द्रग्रहणम् । तेषाम् इत्यसुरनिर्देशः । इष्टापूर्तम् इति
द्वन्द्वसमासः । इष्टं च पूर्तं चेष्टापूर्तम् । तत्र यन्मन्त्रपूर्वकेण विधिना
१. 10th Guru. २. 6th Guru.