सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)

Paribhashendushekhara of Nagesha Bhatta with Commentary

महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा

DevanagariHindipublished373 पृष्ठ

५० प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः १९३
स्यादिति चेन्न । तत्र अन्तःकार्यत्वरूपान्तरङ्गत्वसत्त्वात् । अन्तःकार्यत्वं च
पूर्वोपस्थितनिमित्तकत्वम्, अङ्गशब्दस्य निमित्तपरत्वात् ।
इदमन्तरङ्गत्वं लोकन्यायसिद्धमिति 'मनुष्योऽयं प्रातरुत्थाय शरीर-
कार्याणि करोति, ततः सुहृदाम्, ततः सम्बन्धिनाम् ।' अर्थानाम् जाति-
व्यक्तिलिङ्गसङ्ख्याकारकाणां बोधक्रमः शास्त्रकृत्कल्पितः, तत्क्रमेणैव च तद्-
बोधकशब्दप्रादुर्भावः कल्पित इति तत्क्रमेणैव तत्कार्याणीति 'पट्व्ये'त्यादौ
अन्तरङ्गत्वात् पूर्वं पूर्वयणादेशः परयणादेशस्य बहिरङ्गतयाऽसिद्धत्वादित्य-
नेन 'अचः परस्मिन्नि'ति सूत्रे भाष्ये स्पष्टम् ।
तदपि युगपत्प्राप्तौ पूर्वप्रवृत्तिनियामकमेव । यथा 'पट्व्ये'त्यत्र पदस्य
विभज्यान्वाख्याने, न तु जातस्य बहिरङ्गस्य तादृशेऽन्तरङ्गेऽसिद्धतानिय-
मकम्, प्रागुक्तलोकन्यायेन तथैव लाभादिति 'वाह ऊठ्'सूत्रे कैयटे स्पष्टम् ।
अत एव 'वाय्वोरि'त्यादौ वलिलोपो यणः स्थानिवत्त्वेन वारितः 'अचः
परस्मिन्नि'त्यत्र भाष्यकृता । क्रमेणान्वाख्याने तु उक्तोदाहरणे पूर्वप्रवृत्तिकत्व-
मन्तरङ्गत्वं बहिरङ्गस्यासिद्धत्वमपि निमित्ताभावादप्राप्तिरूपं बोध्यम् ।
मिदमिति भावः । अन्तःकार्यत्वरूपेति । यदीयसम्बन्धिनिमित्तात्पूर्वं यदीयसम्बन्धि
तदन्तरङ्गमित्यर्थः । नन्वत्र सार्वेति गुणात्पूर्वं नित्यत्वाच्चङि 'सुअदि'ति स्थिते 'द्विर्व-
चनेऽची'ति निषेधादुवङोऽप्राप्तौ द्वित्वात्परत्वात् ओणेर्ऋदित्वकरणेन उपधाकार्यमात्रस्य
प्राबल्यबोधनाच्च पुगन्तेति गुणो दुर्वार इति चेन्न । द्वित्वस्य पूर्वोक्तपारिष्कृतान्तरङ्ग-
त्वेन गुणात्पूर्वं प्रवृत्त्या दोषाभावात्, ज्ञापकसाजात्यादृदित्करणेनापि चङ्निमित्तकोपधा-
कार्यस्यैव प्राबल्यबोधनेनात्र तद्विषयाभावाच्च । 'पट्व्या, मृद्व्ये'त्यत्रापि परयण्निमित्तात्
पूर्वं पूर्वयण्निमित्तस्य सत्त्वेनान्तरङ्गत्वमूह्यम् । ईदृशान्तरङ्गत्वस्य असिद्धतानियामकत्वे
मानं च प्रकृतलोकन्यायादिकं बोध्यमित्यन्यत्र विस्तरः ।
अन्तःकार्यत्वं चानेकविधम्, तत्र प्रकृते कीदृशं तद् गृह्यत इत्यत आह—
पूर्वोपस्थितेति । अनुपदमेवास्यार्थ उक्तः ।
तदपीति । अन्तःकार्यत्वरूपान्तरङ्गत्वं चेत्यर्थः । अत एवेति । अन्तःकार्यत्वरूपा-
न्तरङ्गत्वस्य समकालप्राप्तबहिरङ्गासिद्धत्वनियामकत्वादेवेत्यर्थः । पदसंस्कारपक्षे
उक्तमन्तरङ्गत्वमुपपाद्य क्रमिकान्वाख्याने तत्सङ्गमयति—क्रमेणेति । अत्र पक्षे बहि-
रङ्गत्वमप्युपपादयति—अप्राप्तिरूपमिति ।
तत्र “अन्तःकार्यत्वरूपान्तरङ्गत्वादि”त्युत्तरम् । अस्यायमाशयः—अन्तःकार्यत्वरूप-
मन्तरङ्गत्वं द्विविधम्—दैशिकम्, कालिकञ्चेति भेदात् । तयोर्मध्ये दैशिकं ज्ञापकपरभाष्यप्रमापितं
घटकमात्रनिमित्तकत्वरूपम्, तदेव 'असुस्रूवत्' इत्यादौ द्रष्टव्यम् । सम्प्रति कालिकमन्तरङ्गत्वं
प्रपञ्चयति मूले—अन्तःकार्यत्वञ्च पूर्वोपस्थितनिमित्तकत्वमित्यादिना ॥ ५० ॥
२५

यत्तु एवंरीत्या पूर्वस्थानिकमप्यन्तरङ्गममिति । तच्चिन्त्यम् ; 'स्रजिष्ठ'
इत्यादौ विन्मतोर्लुकि टिलोपस्यापवादविन्मतोर्लुक्प्रवृत्त्या जातिपक्षाश्रयणेन
वारणप्रयासस्य 'प्रकृत्यैकाजि'ति सूत्रप्रयोजनखण्डनावसरे भाष्यकृतकृतस्य
नैष्फल्यापत्तेः, त्वदुक्तरीत्या विन्मतोर्लुको बहिरङ्गासिद्धत्वेन अनायासत-
स्तद्वारणात्, भाष्ये ईदृशरीत्या बहिरङ्गासिद्धत्वस्य क्वाप्यनाश्रयणाच्च ।
परिभाषायामङ्गशब्दस्य निमित्तपरत्वाच्च ।
इयं चोत्तरपदाधिकारस्थबहिरङ्गस्य नासिद्धत्वबोधिकेति 'इच एका-
चोऽम्'ति सूत्रे भाष्ये पूर्वपक्ष्युक्तिरिति, सा नाऽऽदर्तव्या । 'परन्तप'
इत्यादावनुस्वारे नासिद्धत्वं मुमस्त्रिपाद्यां तदप्रवृत्तेः ।
जातिपक्षाश्रयणेनेति । केचित्तु — विनो लोपस्य तक्रन्यायेन टिलोपापवादत्वात्तदुत्तरं
[L11

५० प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः १६५

नव्यमतेऽपि यथोद्देशपक्षाश्रयणेन अन्यथासिद्धोदाहरणदानेन तस्य
तदुक्तित्वमावश्यकमित्याहुः । आभीयेऽन्तरङ्गे आभीयस्य बहिरङ्गस्य समा-
नाश्रयस्य नानेनासिद्धत्वमसिद्धत्वादिति 'असिद्धवत्' सूत्रे भाष्ये स्पष्टम् ।
एवं सिचि वृद्धेर्येन नाप्राप्तिन्यायेन अन्तरङ्गबाधकत्वमूलकं न
सिच्यन्तरङ्गमस्तीति 'इको गुणे'ति सूत्रे भाष्ये स्पष्टम् ॥ ५० ॥


ननु भाष्यकारवचनप्रामाण्याविशेषात् 'एवं तर्ह्यन्तरङ्गे लुकी'त्यस्यैव कुतो
नैकदेश्युक्तित्वमुररीक्रियत इति चेत् तत्राऽऽह—नव्यमतेऽपीति । दीक्षितादिमतेऽपीत्यर्थः ।
केचित्तु—'श्रियं मन्यमि'त्यत्र अम्‌विधिसामर्थ्याद् बाध्यसामान्यचिन्ताश्रयणेन
स्वमोरिति लुको बाधः । 'एवं तर्ह्यन्तरङ्गे लुकी'ति भा

१९६ परिभाषेन्दुशेखरः [ २ प्रकरणे-
नन्वेवम् 'अक्षद्यूरि'त्यादौ बहिरङ्गस्योठोऽसिद्धत्वात् अन्तरङ्गो यण्
न स्यादत आह—
नाजानन्तर्ये बहिष्ट्वप्रकॢप्तिः ॥ ५१ ॥
—: ❖ :—
अत्र 'षत्वतुकोरि'ति सूत्रस्थं तुग्ग्रहणं ज्ञापकम् ; अन्यथा 'अधीत्य,
प्रेत्ये'त्यादौ समासोत्तरं ल्यप्प्रवृत्त्या पूर्वं समासे जाते तत्र संहिताया नित्य-
त्वाद् ल्यबुत्पत्तिपर्यन्तमपि असंहिताऽवस्थानासम्भवेन एकादेशे ल्यपि
तुगपेक्षया पदद्वयसम्बन्धिवर्णद्वयापेक्षैकादेशस्य बहिरङ्गतयाऽसिद्धत्वेन तद्वै-
यर्थ्यं स्पष्टमेव । पदद्वयसम्बन्धिवर्णद्वयापेक्षं बहिरङ्गमिति 'प्रेद्ध' इत्यादौ
गुणो बहिरङ्ग इति ग्रन्थेन 'न धातुलोप' इति सूत्रे 'संयोगान्तस्य लोप'
इति सूत्रे च भाष्ये स्पष्टम् ।
नन्वेव

अनुनासिकत्वे विसर्गे 'विसर्जनीयस्य सः' इति सत्वे तस्य 'ह्रस्वात्तादौ तद्धिते' इति षत्वसिद्धये
: एकादेशस्यासिद्धत्वाय षत्वग्रहणं चरितार्थम्, तत्र षत्वविधौ तदायंशोपस्थित्या अस्यैव बहि-
: रङ्गत्वं बोध्यम् ।

Let's double-check lines 29, 30, 31:
Line 29:
"अनुनासिकत्वे विसर्गे 'विसर्जनीयस्य सः' इति सत्वे तस्य 'ह्रस्वात्तादौ तद्धिते' इति षत्वसिद्धये"
Wait, 'ह्रस्वात्तादौ तद्धिते' (८।३।१०१):
Panini sutra 8.3.101 is "ह्रस्वात्तादौ तद्धिते"!
So "इति षत्वसिद्धये" or "षत्वसिद्धये"?
Look at L29:
अनुनासिकत्वे विसर्गे 'विसर्जनीयस्य सः' इति सत्वे तस्य 'ह्रस्वात्तादौ तद्धिते' इति षत्वसिद्धये
Wait, is it "षत्वसिद्धये" or "षत्वसिद्धौ"?
It has 'ये' at the end: ष त्व सि द्ध ये (षत्वसिद्धये).

Line 30:
"एकादेशस्यासिद्धत्वाय षत्वग्रहणं चर

१९८ परिभाषेन्दुशेखरः [२ प्रकरणे-
परिभाषार्थस्तु—अचोऽन्यानन्तर्यनिमित्तकेऽन्तरङ्गे कर्तव्ये जातस्य
बहिरङ्गस्य बहिष्ट्वप्रक्लृप्तिः । बहिष्पदेन बहिरङ्गम्, तस्य भावो बहि-
रङ्गत्वम्। तत्प्रयुक्तासिद्धत्वस्य न प्रक्लृप्तिः, न प्राप्तिरिति। असिद्धं बहिरङ्ग-
मित्युकत्वा 'नाजानन्तर्य' इति वक्ष्यामीति भाष्योक्त्या तत्रत्यस्य अन्तरङ्ग
इत्यस्यानुवृत्तिसूचनात् । तेन 'पचावेदम'ित्यादौ न दोषः । अन्तरङ्गस्याच्-
स्थानिककार्यस्यैतवस्य अन्यानन्तर्यनिमित्तकत्वाभावात् ।
जातस्य बहिरङ्गस्येत्युक्त्या 'अयजे इन्द्रं धियती'त्यादौ बहिरङ्गदीर्घ-
गुणादेरसिद्धत्वं सिद्धम् । अत एव 'इण्ङिःशीनामाद्गुणः सवर्णदीर्घत्वाच्छ-
च्छन्दस्य अन्तरङ्गलक्षणत्वादी'त्यादि सङ्गच्छते । अत एव 'ओमाङोश्चे'-
त्याङ्ग्रहणं चरितार्थम् । तद्धि 'शिव+आ+इही'ति स्थिते परमपि सवर्ण-
दीर्घं बाधित्वा धातूपसर्गकार्यत्वेन अन्तरङ्गत्वाद् गुणे वृद्धिबाधनार्थम् ।
न च 'अक्षद्यूरि'त्यत्र यणि कृते ऊठोऽसिद्धत्वाद्वलिलोपापत्तिरिति
वाच्यम्; अचोऽन्यानन्तर्यनिमित्तकेऽन्तरङ्गे कर्तव्ये कृते च तस्मिन् यदन्त-
रङ्गं प्राप्नोति तत्र च कर्तव्ये नासिद्धत्वमिति तदर्थात् । असिद्धपरिभाषाया
अनित्यत्वेन तद्वारणे त्वस्या वैयर्थ्यं तेनैव सिद्धेः ।
अत एव 'नलोपः सुपि'ति सूत्रे कृति तुग्ग्रहणं चरितार्थम् ; अन्यथा
अन्तरङ्गे बहिरङ्गे वा यत्र अचोरानन्तर्यं तत्रानेन निषेध इति प्राचीनव्याख्यां
खण्डयन्नाह—परिभाषार्थस्त्विति । अनुवृत्तिसूचनादिति । अन्तरङ्गपरिभाषाया 'वाह ऊठ्'-
सूत्रदेशस्थत्वेन 'नाजानन्तर्यं' इति वचनस्य 'षत्वतुकोर'िति देशस्थत्वेन अनुवृत्त्यसम्भव
इति प्राञ्चः ।
वस्तुतस्तु—अनुवृत्तौ पूर्वपाठस्य निमित्तत्वम्, न तु पूर्वदेशीयत्वस्य । अत एव
कार्यकालपक्षे संज्ञापरिभाषयोर्विधिदेशीयत्वेऽपि तत्तत्पूर्वपठितसूत्रीयपदानां तत्र तत्रानु-
वृत्तिः सिद्धयति । यद्वा—बहिष्ट्वपदार्थस्य नित्यसाकाङ्क्षतया उपस्थितत्वात्तादृशाजा-
नन्तर्यनिरूपितस्यैव तस्य ग्रहणेनान्तरङ्गत्वस्य लाभसम्भवात् । अत एवेति । जातबहि-
रङ्गस्थले एव निषेधस्वीकारादित्यर्थः । एवमेवोत्तरत्रात एवेत्यस्यार्थो बोध्यः ।
नासिद्धत्वमितीति । प्राङ्नये तु 'वलिलोपे' इति निषेधेन तत्सिद्धिः ।
खण्डयन्निति । 'अन्तरङ्गे बहिरङ्गे वा' इत्युभयोरुपादाने 'पचावेदम्' इति लक्ष्या-
सिद्धिः, 'अचोरानन्तर्यम्'त्युक्तौ धर्मिग्राहकमानविरोधश्चेति भावः ।
मूले—अचोऽन्यानन्तर्यमिति । अज्निष्ठमन्यनिरूपितमानन्तर्यमिति तदर्थः । अन्यश्च
सप्तम्यन्ततया पञ्चम्यन्ततया वा उपात्तपदबोध्यो ग्राह्यः ।
मूले—अभावादिति । 'धातोरि'त्यनुवृत्तस्य विहितविशेषणत्वादिति भावः ।

'वृत्रहभ्यामि'त्यादौ बहिर्भूतभ्याम्निमित्तकपत्वाश्रयत्वेन बहिरङ्गतया
नलोपस्यासिद्धत्वेन सिद्धेस्तद्वैयर्थ्यं स्पष्टमेव । मम तु तुक्यजानन्तर्यसत्त्वा-
न्न दोषः ।
न चैवं सति 'ह्रस्वस्य पिती'ति सूत्रस्थभाष्यविरोधः, तत्र हि
'ग्रामणिपुत्र' इत्यत्र 'इको ह्रस्वोऽङ्च' इति ह्रस्वे कृते तुकमाशङ्क्य ह्रस्वस्य
बहिरङ्गासिद्धत्वेन समाहितम्, 'नाजानन्तर्य' इत्यस्य सत्त्वे तत्र तदप्राप्ते-
रसङ्गतिः स्पष्टैवेति वाच्यम् ; तेन भाष्येणास्या अनित्यत्वबोधनात् । एत-
ज्ज्ञापकेन अन्तरङ्गपरिभाषाया अनित्यबोधनस्यैव न्याय्यत्वात् ।
अत एव 'अचः परस्मिन्नि'ति सूत्रे भाष्ये 'पटु+ई+आ' इत्यत्र पर-
यणादेशस्यानयाऽसिद्धत्वात् पूर्वयणदेशः साधितः । अत एवैषा भाष्ये
पुनः क्वापि नोल्लिखिता । अत एवान्तरङ्गपरिभाषामुपक्रम्य "विप्रतिषेध-
सूत्रेऽस्या बहूनि प्रयोजनानि सन्ति, तदर्थमेषा परिभाषा कर्तव्या, प्रति-
विधेयं च दोषेष्वि"त्युक्तं 'सम्प्रसारणाच्चे'ति सूत्रे भाष्ये । प्रतिविधानं च
परिभाषाविषयेऽनित्यत्वाश्रयणमेवेति ध्वनितमित्यलम् ॥ ५१ ॥
साधित इति । न चात्र जातस्येति निवेशात् एतदप्राप्तिरिति वाच्यम् ; तन्निवेश-
स्याप्यनित्यत्वमूलकत्वेन अदोषात् । पुन क्वापीति । सिद्धान्तिनेति शेषः । यद्वा—'षत्व-
तुकोर'त्यस्याग्रे पुनः क्वापि नोक्तेत्यर्थः । एतेन—विप्रतिषेधसूत्रे पूर्वपक्षिणा भाष्य-
कृताऽस्याः कण्ठत उक्तत्वेन एतच्चिन्त्यमित्यपास्तम् । ध्वनितमिति । तत्र 'नाजानन्तर्यं'
इत्यादिना पृथक् प्रतिविधानमनुक्त्वा तथाकथनात् प्रतिविधेयशब्दस्यैकवचनान्तत्वात्
दोषशब्दस्य बहुवचनान्तत्वाच्च बहूनां दोषाणां परिभाषाऽनित्यत्वरूपमेकं प्रतिविधान-
मिति भाष्यकारो मन्यते । किञ्च 'नाजानन्तर्य' इति प्रतिविधानं विप्रतिषेधसूत्रप्रति-
पादितं सिद्धान्ती यद्यावश्यकत्वेनाभिप्रेष्यत्, तदा तत्र प्रतिविधानमप्युक्तमित्येवावक्ष्यत् ।
अलमिति । वस्तुतः—अननुगतानित्यत्वकल्पनापेक्षया वचनारम्भ एव साधीयान् ।
किञ्च एवं वक्ष्यमाणपरिभाषाणामप्यनावश्यकत्वापत्तिः, अन्तरङ्गपरिभाषाया अनित्यत्व-
कल्पनया तत्तज्ज्ञापकोपपत्तेरिति दिक् ॥ ५१ ॥
वचनारम्भ एव साधीयानिति । 'ह्रस्वस्य पिति कृति तुक्' इति सूत्रस्थभाष्य-
विरोधस्तु न, सन्निपातपरिभाषायां स्वेनैव तस्यैकदेश्युक्तित्वोपवर्णनात् । ननु 'एधस्वेदम्' इत्यत्र
'सवाभ्यां वामौ' इत्यमादेशापत्तिः, तत्सूत्रे अचोऽन्यानन्तर्यसत्त्वेन 'नाजानन्तर्य' इति निषेधात्
अन्तरङ्गपरिभाषाया अप्राप्तेः । एवं 'औजिढत्' इत्यत्र 'ढ्रलोपे पूर्वस्य दीर्घोऽणः' इति दीर्घापत्तिः,
'अम्बाऽत्र' इत्यत्र ह्रस्वापत्तिश्च । आद्ये द्वित्वासिद्धस्य अन्त्ये च दीर्घासिद्धत्वस्य 'नाजानन्तर्य'

२०० परिभाषेन्दुशेखरः [ २ प्रकरणे-
नन्वेवं 'गोमत्प्रिय' इत्यादौ पदद्वयनिमित्तकसमाश्रितत्वेन बहिरङ्गं
लुकं बाधित्वा अन्तरङ्गत्वात् हल्ङ्यादिलोपे नुमादयः स्युरत आह—
अन्तरङ्गानपि विधीन् बहिरङ्गो लुग्बाधते ॥ ५२ ॥
—: ❀ :—
अत्र च 'प्रत्ययोत्तरपदयोश्चे'ति सूत्रं ज्ञापकम् । 'त्वत्कृतमि'त्यादौ
लुगपेक्षया अन्तरङ्गत्वाद्विभक्तिनिमित्तेन 'त्वमावेकवचने' इत्यनेन सिद्ध
इदं व्यर्थं सत्तज्ज्ञापकम् ।
हल्ङ्यादिलोपे नुमादयः स्युरिति । परत्वान्नित्यत्वाच्च दीर्घं बाधित्वेत्यर्थः । न च
पूर्वं नुमि उपधायामचोऽभावात् सूत्रारम्भसामर्थ्येन पूर्वं दीर्घ एव स्यादिति वाच्यम् ;
उपधाग्रहणस्य तत्र पूर्वमात्रोपलक्षकत्वेन सामर्थ्याभावात् पूर्वं दीर्घाप्रवृत्तेः । न चैव-
मपि हल्ङ्यादिलोपं नुमं च तक्रन्यायेन दीर्घो बाधेतेति सर्वथाऽवतरणासङ्गतिरिति
वाच्यम् ; हल्ङ्यादिलोपविषये तक्रन्यायाप्रवृत्तेर्वक्ष्यमाणत्वात् आपाद्यमानेऽर्थे न्याया-
नादराच्चेत्याशयात् ।
अन्तरङ्गानपीति । अपिना परादिसङ्ग्रहः, तेन 'ह्यः श्वः' इत्याद्यव्ययेषु हल्-
ङ्यादिलोपं परमपि बाधित्वा 'अव्ययादाप्सुप' इति लुक्सिद्धिः ; अन्यथा हल्ङ्यादि-
लोपे असन्तत्वाद्दीर्घापत्तिरिति भावः ।
नन्वेवं 'त्वं कुलमि'त्यादौ 'ङेः प्रथमयोरि'त्यमं बाधित्वा 'स्वमोरि'ति लुक्
स्यात्, 'भवतादि'त्यत्र तातङं बाधित्वा हेर्लुक् च स्यात्, 'तत्कुलमि'त्यत्र परमप्यत्वं
बाधित्वा 'स्वमोरि'ति लुकि 'त्यदादिभ्यश्चे'ति वार्तिकासङ्गतिश्चेति चेन्न ।
आद्ये 'शिशीनुमुलुग्विधी'ति वार्तिकारम्भसामर्थ्येन एतदप्रवृत्तेर्युष्मदस्मदोरलिङ्गत्वेन
लुकोऽप्राप्तेश्च । 'भवतादि'त्यत्र त्वस्या ज्ञापकसिद्धत्वेन असार्वत्रिकत्वादिति शेखरोक्त-
समाधानस्य त्वयाऽप्याश्रयणीयत्वात् । अत्राऽपिशब्दाभावेऽपि तातङोऽनैमित्तिकत्वेन
इति निषेधात् । 'नाजानन्तर्य' इति परिभाषाया अनित्यत्वाश्रयणे तु 'षत्वतुकोरसिद्धः' इति
तुग्ग्रहणेन 'अन्तरङ्ग'परिभाषाया एव अनित्यत्वज्ञापनमुचितमिति चेन्न । 'अन्तरङ्ग'परिभाषा-
खण्डनावसरे पूर्वोक्तदोषाणामुद्धृतत्वात् ॥ ५१ ॥
अपिना परादिसङ्ग्रह इति । अपिरत्र 'दण्डापूपिक'न्यायद्योतनार्थः, न तु 'कैमुतिक'-
न्यायद्योतनार्थ इति भावः । कैमुतिकन्याये हि अन्यार्थे तात्पर्यं पर्यवसीयते, स्वार्थे निषेधश्च
भवति । यथा 'दोषा वाच्या गुरोरपि' इत्यत्र गुरोस्तु दोषा नैव वाच्याः, तथा सति छात्रत्व-
भङ्गापत्तेः, किन्तु अन्येषां सर्वेषामपि वाच्या इत्यर्थः । दण्डापूपिकन्यये तु 'केसरिणमपि हन्यात्'
इत्यादौ केसरिहन्तृत्वम्, अन्येषामपि सत्वानाञ्च हन्तृत्वं लभ्यते । तथैव प्रकृते नित्यादपि बलीयान्,
परादपि बलीयानित्यर्थः । एवञ्च परिभाषायां बहिरङ्गत्वमुपलक्षणमात्रमिति तत्त्वम् ।

ननु ‘तव पुत्रस्त्वत्पुत्र’ इत्यादौ तव-ममादिबाधनार्थं तदावश्यकमिति
चेत्, एवं तर्ह्यत्रत्यमपर्यन्तग्रहणानुवृत्तिस्तज्ज्ञापिकेति भाष्यकृतः ।
अन्तरङ्गत्वाल्लुगापत्तिवारणे गत्यन्तराभावात्, ‘यश्चोभयोः समो दोषः परिहारस्तयोः
सम’ इति न्यायेन अपिशब्दनिवेशे दोषदानस्यानुचितत्वाच्च । ‘तत्कुलम्’ इत्यत्र परिभाषा-
यामपिशब्देन लुको ‘दण्डापूपिक’न्यायेन पराद्यन्तरङ्गान्तश्शास्त्रबाधकत्वबोधनेऽप्यपवाद-
शास्त्रबाधकत्वे मानाभावात् ‘उपसञ्जनिष्यमाण’न्यायेन ‘अतोऽम्’त्यस्य विषये लुको-
ऽप्रवृत्तेर्वार्तिकस्य अमादेशबाधनायाऽऽवश्यकत्वात् ।
केचित्तु— ‘भवतादि’त्यत्र लुकोऽप्रवृत्तये ‘तुह्योरि’ति सूत्रं तुहि इति पृथक् पदं
लुप्तषष्ठ्यन्तम्, ओसिति पञ्चम्यन्तम् । ‘अश्च उश्चे’ति समाहारद्वन्द्वः ।

सिद्धे तदनुवृत्तिर्व्यर्था सत्येतज्ज्ञापिकेति भावः । ननु मपर्यन्तानुवृत्त्यभावे सर्वादेश-
विधानाय सूत्रस्य चरितार्थत्वेन वार्तिककारमते तक्रन्यायासत्त्वेन अपवादत्वाभावाद्
भाष्यमते तक्रन्यायेनापवादत्वेऽपि उत्सर्गेति नियमाभावाज्ज्ञापकासम्भवः । अत एव
द्वितीयद्विर्वचनेन प्रथमद्विर्वचनबाध इति चेन्न । भाष्यमते यत्रापवादशास्त्रीय-
'प्रत्ययोत्तरपदयोश्च' इत्यस्याप्राप्तेः । न च तवममादेशोत्तरं स्थानिवद्भावेन युष्मच्छब्दत्वमादाय
तत्प्राप्तिरिति वाच्यम् ; तत्रापि मपर्यन्तस्यानुवृत्त्या तस्य चालुमात्रवृत्तिधर्मघटिततया स्थानिव-
द्भावाप्राप्तेरिति चेत्--सत्यम् । 'उपसञ्जनिष्यमाण'न्यायेन तवाद्यादेशबाधकत्वसिद्धेः । यदि पूर्वं
तवममौ न स्याताम्, तर्हि सामसिक्लुकि उत्तरपदपरत्वसम्भावनया तत्प्राप्तिसम्भावनायाः
सत्त्वादिति भावः ।
ननु उत्सर्गशास्त्रप्रवृत्त्यसम्भावनायां द्वित्वोत्तरं 'दधती'त्यादौ एककालावच्छेदेन उत्सर्गाप-
वादयोः प्राप्तौ सत्यां तदप्राप्तियोग्येऽचरितार्थ्यरूपबाधबीजसत्त्वेन तत्र 'उपसञ्जनिष्यमाण'न्यायेन
बाधोऽस्तु । प्रकृते तु 'युष्मद् + ङस्, पुत्र + सु' इत्यस्यामवस्थायामुत्तरपदस्य ङसा व्यवधानात्
'प्रत्ययोत्तरपदयोश्च' इत्यस्याप्राप्त्या तदप्राप्तियोग्यस्थले अचरितार्थ्यरूपबाधबीजस्याभावात्
कथं बाधकत्वमिति चेत्-सत्यम् । 'तदप्राप्तियोग्येऽचारितार्थ्यम्'त्यत्र प्राप्तिपदेन प्राप्ति-प्रवृत्त्येत-
रन्यतरस्य ग्रहणात् । प्राप्तिश्च उद्देश्यतावच्छेदकक्रान्तिः, प्रवृत्तिश्च विधेयतावच्छेदकसम्बन्धेन
विधेयवैशिष्ट्यम् । तथा च 'युष्मद् + ङस्, पुत्र + सु' इत्यत्र 'तवममौ ङसि' इत्यस्य प्राप्तिः, लुगु-
त्तरञ्च 'प्रत्ययोत्तरपदयोश्च' इत्यस्य प्राप्तिरित्येकलक्ष्यावच्छेदेन उभयोः प्राप्तिरस्त्येव । 'उभयो-
रेककालावच्छेदेन प्राप्तौ सत्यामेव बाधकता' इति नियमो नाङ्गीक्रियते । उत्सर्गशास्त्रीयप्राप्ति-
प्रवृत्त्यन्यतरतानाक्रान्तेऽचारितार्थ्यमात्रमपेक्षितम् । 'त्वत्पुत्रः' इत्यादौ लुकः प्राक् 'तवममौ ङसि'
इत्येतत्प्राप्तिसत्त्वात् न तदप्राप्तियोग्यता वर्तते तत्रेति बाधकत्वं युक्तमेवेति बोध्यम् ।
नन्वेवं सति अनडुह्-शब्दस्थकौमुदीग्रन्थो विरुध्येत, लक्ष्यासिद्धिश्च स्यात् । तथा हि-
"आदित्यधिकारात् अवर्णात्परोऽयं नुम् । अतो विशेषविहितेनापि नुमा आम् न बाध्यते, अमा च
नुम् न बाध्यते" इति तत्रोक्तम् । एतेन आम्-नुमोरेककालावच्छेदेन प्राप्तिर्वारिता, एककाले प्राप्तौ
सत्यामेव बाध्यबाधकत्वमिति तदाशयात् । सम्प्रति आदित्यधिकारेऽपि समानकालिकप्राप्तावेव
बाधकत्वमिति नियमाभावेन नुमा आम्बाधः स्यात् , 'अनड्वान्' इति च न स्यादिति चेत् ,
अत्राहुः--तत्र आदित्यधिकारसामर्थ्याद् बाधाभावः । उपजीव्यविरोधाच्च आकार-
मुपजीव्य जायमानो नुम् कथं तद्बाधकः स्यात् । एवञ्च सामर्थ्यादत्र 'तक्रकौण्डिन्य'न्यायप्रवृत्त्या
न विरोधो नापि लक्ष्यविसंवादश्चेति तत्त्वम् ।
वार्तिककारमत इति । तन्मते तदप्राप्तियोग्येऽचारितार्थ्ये सति कृतेऽप्यचारितार्थ्यरूप-
सर्वथा निरवकाशत्वे एव बाधकत्वमिति भावः । उत्सर्गेति नियमाभावादिति । भाष्यमते
कृते चारितार्थ्येऽपि विषयभेदेऽपि बाधसम्भवेन तत्र 'उत्सर्गे'ति न्यायाविषयत्वादिति भावः ।
तक्रन्यायाविषये 'उत्सर्गसमाने'ति न्यायः प्रवर्तते न वा ? आद्ये एकाचो द्विर्वचनस्य द्वितीय-
द्विर्वचनेन बाधकत्वं भाष्ये उक्तं न सङ्गच्छेत । द्वितीये मपर्यन्तानुवृत्तिवैयर्थ्याभावात् ज्ञापकपर-
भाष्यविरोधः । यस्मात् भाष्याविरोधाय ज्ञापकत्वघटनाय चास्य न्यायस्यानुगतरूपेण प्रवृत्ति-
लक्ष्यमुच्यते--भाष्यमत इति । अत्र अपवादशास्त्रीयावच्छेदकता च पर्याप्त्या ग्राह्या, अन्यथा
एकाच्त्वस्य उभयावच्छेदकत्वेन अनिष्टं स्यात् ।

५२ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः २०३
स्थानितावच्छेदकमूत्सर्गशास्त्रीयस्थानितायाः साक्षात्परम्परया वाऽवच्छेदकं तत्रो-
त्सर्गसमानेति नियमस्यावश्यप्रवृत्तेः स्वीकारात्, प्रकृते च अपवादप्रत्योत्तरपदयोरित्ये-
तच्छास्त्रीयस्थानितावच्छेदकस्य युष्मच्छब्दत्वस्य उत्सर्गशास्त्रीयस्थानितायाः परम्परया
अवच्छेदकत्वेन उत्सर्गेति न्यायेन मपर्यन्तस्यैव आदेशसिद्धेस्तदनुवृत्तेर्ज्ञापकत्वस्य
सुस्थत्वादिति--केचित्।
यत्तु--मपर्यन्तानुवृत्त्यभावेऽपि 'प्रत्ययोत्तरपदयोश्चे'त्यस्य 'द्वन्द्वश्च प्राणी'-
त्यस्य समाहारसिद्धैकत्वानुवादकत्ववत् लाघवात् 'त्वमावेकवचने' इत्येतदनुवादत्व-
कल्पनेनास्यापि मपर्यन्त एव प्रवृत्त्या तद्वैयर्थ्येन एतत्परिभाषानुमानमिति । तन्न ;
'द्वन्द्वश्च प्राणी'त्यादेः समाहार एकत्वस्य सिद्धत्वेन इतरयोगेऽपूर्वतद्विधायकत्वकल्पना-
पेक्षया लाघवात्तदनुवादकत्वकल्पनेऽप्यस्य कस्मिन्नप्यंशे अनुवादकत्वासम्भवेन त्वदुक्त-
कल्पनया ज्ञापकत्वयोजनस्याशक्यत्वात् ।
अन्ये तु--उक्तसूत्रे तदनुवृत्तावन्तरङ्गत्वात् त्वादेशे मपर्यन्तासम्भवेनैतत्सामर्थ्येन
उक्तपरिभाषा कल्प्यत इति वदन्ति ।
अन्ये तु--'प्रत्यय' इत्यधिकारे कर्तव्ये 'अङ्गस्ये'त्यधिकारकरणमस्यां ज्ञापकम्,
तत्फलं 'पञ्चक्रोष्ट्री'ति । अत्र हि पञ्चभिः क्रोष्टृभिः क्रीतमित्यर्थे तद्धितस्त्रीप्रत्य-
ययोर्लुक्‍यपि प्रत्ययलक्षणेनाङ्गसंज्ञायां 'स्त्रियां च'ति तृज्वत्त्वं भवति । 'प्रत्यय' इत्य-
धिकारे तु 'न लुमताङ्गस्ये'ति प्रत्ययलक्षणनिषेधेन प्रत्ययपरत्वाभावात्तृज्वत्त्वानापत्तिः ।
एतत्परिभाषाभावे तु 'प्रत्यय' इत्यधिकारेऽप्यन्तरङ्गत्वात् पूर्वमेव तृज्वत्त्वे 'अङ्गस्ये'-
त्यस्य वैयर्थ्यं स्पष्टमेवेति वदन्ति ।
केचित्तु--'त्वमावेकवचने' इति सूत्रे 'विभक्तौ' इत्यनुवृत्तिरेतज्ज्ञापिका । तत्फलन्तु
इति केचिदिति । इदं चिन्त्यम्--'छन्दसि वनमेके' इत्यत्रायं नादेशापवादः, तेन
'उत्सर्गसमाने'ति न्यायात् तकारस्यैवेति शेखरग्रन्थविरोधात्, लक्ष्यासिद्धेश्च । तत्रापवादशास्त्रीय-
स्थानितावच्छेदकम् असितशब्दत्वं तेनोत्सर्गशास्त्रीया स्थानिता कालत्रयेऽप्यनवच्छिन्नैव इति
'उत्सर्गसमाने'त्यस्याप्रवृत्तेः ।
वस्तुतस्तु--यथा इनमकजादिषु मित्त्वादिना न्यायबाधः, एवम् 'अजादेर्द्वितीयस्ये'त्यत्रापि
द्वितीयग्रहणेन बाध एव वाच्यः 'उत्सर्गसमाने'ति न्यायस्य । एवञ्चास्य प्रवृत्तिः कुत्रेति चिन्ताया
नैवावकाशः इति तत्त्वम् । यद्वा--अपवादशास्त्रीयोद्देश्यतापर्याप्त्यधिकरणवृत्त्युद्देश्यताकत्वं यत्रो-
त्सर्गशास्त्रस्य, तत्रायं न्यायः प्रवर्तते । असितशब्दवृत्त्युद्देश्यता वर्णादानुदात्तेत्येतच्छास्त्रीयाऽस्त्येव,
तस्य वर्णवाचकत्वात् । द्वितीयेकाजनिष्ठा च उद्देश्यता नैकाच इति शास्त्रीयेति न दोषः ।
अन्ये त्विति । वस्तुतः--इदं ज्ञापकं 'वार्तिकरीत्या' इत्यादिग्रन्थेन स्फुटीभविष्यति ।
अङ्गस्येत्यधिकारकरणमिति । ननु 'प्रत्यय' इत्यधिकारे मात्राधिक्येन गौरवात् कथमिदमुपपद्यत
इति चेन्न । 'यस्मात् प्रत्ययविधिस्तदादिप्रत्ययेऽङ्गम्' इति संज्ञासूत्रकरणेन लाघवात् 'निरुतं
दुरुतम्' इत्यत्र च 'प्रत्यये' इत्यनेन आक्षिप्ततदादिघटकस्यैव हलो ग्रहणमिति न दोष इति बोध्यम् ।
विभक्तावित्यनुवृत्तिरिति । तदनुवृत्तौ च 'प्रत्ययोत्तरपदयोश्च' इति सूत्रमेव ज्ञापकम् ।

२०४ परिभाषेन्दुशेखरः [ २ प्रकरणे-
युष्मदादिभ्य आचारक्विप् तु न सम्पूर्णसूत्रस्य ज्ञापकतापरभाष्य-
प्रामाण्यात् ‘ह्रस्वनद्याप’ इति नुड्विधायकसूत्रस्थभाष्यप्रामाण्येन हलन्तेभ्य
‘युष्मत्सुन्दरपुत्र’ इत्यत्रैतदप्रवृत्तिरेव । एतत्परिभाषासत्त्वे तु विभक्तिपदानुवृत्तेः
सत्त्वासत्त्वयोरपि त्वमयोर्दुर्व्वारतया तदसङ्गतिः स्पष्टैवेति प्राहुः ।
अन्ये तु—त्वमेति सिद्धे ‘प्रत्ययोत्तरपदयोश्चे’त्यस्य वैयर्थ्येन सामर्थ्यात्त्व-
ममादिशास्त्रबाधककल्पनापेक्षया अन्तरङ्गपरिभाषाप्रवृत्तिबोधकैतत्परिभाषाज्ञापकत्व-
स्यैवौचित्यमिति वदन्ति ।
परे तु—त्वममौ ङ्स्यलुकीति न्यासेन अलुकीत्यस्य ‘तुभ्यमह्यौवि’त्यत्र सम्ब-
न्धेन च ‘त्वत्पुत्र’ इत्यादौ त्वममादिव्यावृत्त्या ‘तव पुत्र’ इत्यादावलुक्समासे व्यासे
च तवादिसिद्ध्या प्रत्ययोत्तरेति सूत्रमेवोक्तार्थे ज्ञापकम् । ज्ञापिते त्वस्मिन्वचने
‘त्वदीयस्त्वत्पुत्र’ इत्यादौ ‘त्वमावेकवचने’ इत्यस्य विभक्तिपरत्वाभावेनाप्राप्त्या त्वा-
द्यादेशार्थं सूत्रं तच्चरितार्थमिति प्राहुः ।
‘ह्रस्वनद्याप’ इति नुड्विधायकसूत्रस्थभाष्येति । तत्र हि ‘अथास्य कस्मान्न भवती’-
त्यादिना ‘कास्प्रत्यया’दिति विहितस्यामो नुटमाशङ्क्य, ‘सानुबन्धकत्वेन समाधा-
योक्तम्—‘स तर्ह्यर्थमर्थमनुबन्धः कर्तव्यः । ननु चावश्यमित्संज्ञापरित्राणार्थमनुबन्धः
कर्तव्यः । नार्थ इत्संज्ञापरित्राणार्थेन । इत्संज्ञाकार्याभावादित्संज्ञा न भविष्यति ।
इदमस्तीत्कार्यं ‘मिदचोऽन्त्यात्पर’ इति । प्रत्ययान्तादयं विधीयते तत्र नास्ति विशेषः,
‘मिदचोऽन्त्यात्पर’ इति वा परत्वे परश्चेति वे”ति ।
अत्र कैयटः—‘‘हलन्तेभ्य आचारक्विबन्तेभ्य आम्स्यस्त्येव विशेषः । नैतदस्ति,
ज्ञापकत्वस्यैवौचित्यमितीति । वस्तुतस्तु—अनैयायिकबाधकल्पनापेक्षया नैयायिकबाध-
कल्पनाया एवौचित्येन प्रकृते ‘येन नाप्राप्ति’न्यायमूलकनैयायिक-त्वममादिबाधककल्पनामनादृत्य
परिभाषाकल्पनाद्वारा त्वममादिबाधककल्पनाया अनैयायिक्या अनीचित्यमेव । अत एव ‘अकः
सवर्णे दीर्घः’ इत्यनेन निरवकाशमूलक-‘येन नाप्राप्ति’न्यायेन ‘इको यणचि, आद्गुणः’ इत्यनयो-
र्बाधसिद्धिः । अन्यथा ‘अकः सवर्णे दीर्घः’ इत्यनेन शास्त्रद्वयबाधकल्पनापेक्षया सामर्थ्यात् ‘तस्मि-
न्निति’ परिभाषापोपस्थिताब्यवहितांशत्यागकल्पनेनैव ‘देवदत्तः’ इत्यादौ दकारेण व्यवधानेऽपि
वकाराकार-दकाराकारयोर्दीर्घविधानेन चारितार्थ्ये ‘इको यणचि, आद्गुणः’ इत्यनयोर्बाधो
न स्यात् ।
प्राहुरिति । न च ‘तव पुत्रः प्रियो यस्य’ इति त्रिपदबहुव्रीहौ मध्यमपदेन व्यवधानात्
उत्तरपदपरत्वाभावेन ‘सूत्राप्राप्त्या परिभाषाया इदानीमभावेन तवादेशप्रवृत्तिः, अलुकि तु नेति
फलभेदापत्तिरिति वाच्यम्; व्यधिकरणपदबहुव्रीहिकल्पनापेक्षया परिभाषाज्ञापकत्वस्यैवौचितत्वा-
दिति भावः ।
ननु युष्मदस्मच्छब्दाभ्यामाचारक्विपि विभक्तिपरकत्वाभावेन ‘त्वमावेकवचने’ इत्यस्य
प्राप्त्यभावेन ‘प्रत्ययोत्तरपदयोश्च’ इत्यस्य चारितार्थ्यसद्भावेन ‘त्वममादिबाधनार्थमि’त्युक्ति-
रसङ्गतैव, सति फलान्तरे बाधकबाधनार्थत्वोक्तेरयुक्तत्वादत आह मूले—युष्मदादिभ्य
आचारेति ।
अत्र कैयट इति । अस्य ‘इत्याह’ इत्यग्रिमेण साकमन्वयः ।

त्तित्त्वेन"?
Look at: इ - त्य - नु - वृ - त्ति - त्वे - न. It has 'त्ति' and 'त्वे' (single त in त्वे). So "इत्यनुवृत्तित्वेन".

Line 27:
"णिजुत्पत्तेर्विभक्तिपरत्वाभावात् इति शेखरमतम् ।"
Wait, is it "णिजुत्पत्तेर्विभक्तिपरत्वाभावादिति" or "णिजुत्पत्तेर्विभक्तिपरत्वाभावात् इति"?
Looking at line 27:
"णिजुत्पत्तेर्विभक्तिपरत्वाभावादिति" -> wait:
णि जु त्प त्ते र्कि [र्वि] भ क्ति प र त्वा भा वा दि ति
Look at the syllable before 'ति': 'दि'!
'भा' 'वा' 'दि' 'ति' -> भावादिति!
Yes, भावादिति शेखरमतम् । Not भावात् इति!

Line 28:
"अस्मद्गुरुचरणास्तु--अनभिधानं नाभिधेयमिति प्राहुः । तथा हि, 'प्रत्ययोत्तरपदयोश्च'"
Yes!

Line 29:
"इत्यत्र 'विभक्तौ' इत्यनुवर्तते न वा ? स्वीकृते सम्बन्धे प्रत्ययोत्तरपदाव्यवहितपूर्वत्वविशिष्टविभक्त्य-"
Yes!

Line 30:

ननु मपर्यन्तानुवृत्तिरपि सर्वादेशत्ववारणाय चरितार्था । न च
‘उत्सर्गसमानदेशा अपवादा’ इति न्यायेन असिद्धवत्सूत्रस्थभाष्यसम्मतेन
मपर्यन्तस्यैवाऽऽदेशे सिद्धे तदनुवृत्तिर्व्यर्थेति वाच्यम् ; तस्य इनमकजादौ
व्यभिचारादिति चेन्न । इनमि मित्त्वेन बहुचि पुरस्ताद् ग्रहणेनाकचि प्राक्
टेर्ग्रहणेन तस्य बाधेऽपि अत्रोत्सर्गस्य त्यागे मानाभावात् ।
अत एव ‘तस्मिन्नणि चे’त्यनेन युष्माकाद्यादेशविधानं चरितार्थम्,
अन्यथा आकङादेशमेव विदध्यात् । आकङि तवकाद्यादेशयोरेतदपवादयो-
वस्तुतस्तु—‘त्वमावेकवचने’ इति योगविभागसामर्थ्येन ‘प्रत्ययोत्तरपदे’ति सूत्रे
सिद्धान्तेऽपि विभक्तावित्यस्यानुवृत्त्याऽत्र प्रत्ययपरकविभक्त्यभावादेव एतदप्राप्तेर्णिजादे-
रनभिधाने न मानम् ।
असिद्धवत्सूत्रस्थभाष्येति । तत्र हि भाष्ये ‘एधी’त्यस्य तत्सूत्रोदाहरणत्वखण्डना-
वसरे उक्तम्—‘‘एत्वं लोपापवादो विज्ञास्यते, न च सकारस्य लोपः प्राप्नोती’’त्युक्तम् ।
उक्तन्यायानाश्रयणे एत्वस्य लोपस्थान्यकारस्थानिकत्वासम्भवेन तदसङ्गतिरेवेति भावः ।
अन्यथा आकङादेशमेवेति । ननु युष्माकाद्यादेशस्य साकच्कापहारकत्वेन

५२ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः २०७
इत्यादी ‘अक’ इत्यस्य निर्दिश्यमानावयवत्वमुपलक्षणमित्यत्र तात्पर्यग्राहकत्वेन इदकम्-
शब्दावयवेऽद्भागस्याकचः प्राङ् निर्दिश्यमानावयवत्वेन प्राप्तत्तदादेशवारणाय चरि-
तार्थत्वेन अकज्विशिष्टे निर्दिश्यमानत्वाभावेन युष्मकच्छब्दे फलभेदाभावात् । तस्मि-
न्नणि च मादाक इति न्यासेन युष्मदाद्यवयवमवर्णादवशिष्टयुष्मदाद्यवयवस्याकादेश
इत्यर्थकेन साकचि फलभेदाभावेनेष्टसिद्धेः युष्माकाद्यादेशस्य उक्तार्थज्ञापकत्वे बाधका-
भावाच्च । नन्वेवमपि ‘अन्तरङ्गानपि’ति न्यायसत्त्व एव युष्माकाद्यादेशानां वैयर्थ्यम्,
अन्यथा युवयोरयमित्यर्थे खञि ‘युष्मद् + ओस् + ईन’ इति स्थितेऽन्तरङ्गत्वाद्
युवादेशे लुकि आकङि ‘यौवाकीन’ इति युवद्-शब्दस्य युष्मकाद्यादेशे तु ‘य

२०८ परिभाषेन्दुशेखरः [ २ प्रकरणे-
रुक्तन्यायेन अन्त्यादेशत्वापत्तिः, अतस्तद्विधानम् ; इदमेव च तज्ज्ञापकम् ।
यद्यपि विरोधे बाधकत्वमिति वार्तिकमतेऽयं न्यायः, भाष्यकारस्तु विनाऽपि
विरोधं सत्यपि सम्भवे बाधकत्वमिच्छतीति 'अनभिहित'सूत्रस्थकैयटरीत्या
नायं नियमः ; तथापि युष्माकाद्यादेशविधानज्ञापित उत्सर्गः स्वीक्रियत
एवेति प्रकृते न दोष । एतद्भाष्यमपि तत्स्वीकारे मानम् ।
एवं च मपर्यन्तानुवृत्तिः 'त्वत्कृतमि'त्यादौ मपर्यन्तस्याऽऽदेशविधा-
नार्था । तत्र चान्तरङ्गत्वात् त्वमावित्येव सिद्धे व्यर्था सा एतज्ज्ञापिका ।
ज्ञापिते त्वस्मिन्नेतद्विषये तवादीनामप्राप्त्या तदपवादत्वाभावेन मपर्यन्त-
स्यैवाऽऽदेशार्थं सा चरितार्थेति तदाशयः ।
अन्ये तु—उक्तज्ञापकेन तद्धितनिष्ठविधेयतानिरूपितोद्देश्यतावच्छेदकरूपाव-
च्छिन्नोद्देश्यताके कार्ये तद्धितपरत्वेन सम्भावितविभक्तेरविद्यमानवद्भाव इति
कल्पनया प्रकृते तद्धितोद्देश्यतावच्छेदकयुष्मच्छब्दत्वावच्छिन्नोद्देश्यताक युवादेशे
विभक्तेरविद्यमानत्वेन युवादेशाप्राप्त्या नोक्तज्ञापकताहानिरिति वदन्ति ।
विरोधे बाधकत्वमिति । उत्सर्गापवादयोः समानदेशत्व एव बाधकत्वमित्यर्थः ।
एतेन भाष्यकृन्नयेऽपि विरोधे एव बाधकत्वेनेदमयुक्तमित्यपास्तम् । वार्तिकमताद्
भाष्यमते विशेषमाह—विनापि विरोधमिति । उत्सर्गापवादयोः समानदेशत्वाभावेऽपी-
त्यर्थः । अत एव 'भवेदि'त्यादौ इयादेशेन दीर्घबाधसिद्धिः । सत्यपि सम्भव इति ।
कृते चारितार्थ्येऽपीत्यर्थः । अत एव 'सर्वेषामि'त्यत्र सुटा नुटो बाधः सिद्ध्यति ।
नायं नियम इति । उत्सर्गापवादयोः समानदेशत्वमिति नियमो नेत्यर्थः । उत्सर्गः स्वीक्रि-
यत एवेति । प्रायिकोऽयमुत्सर्गसमानदेशा इत्यर्थोऽत्र 'अन्तरङ्गानि'ति परिभाषाज्ञापनाय
स्वीक्रियते, 'भवेदि'त्यादिलक्ष्यसिद्धये परित्यज्यत इति भावः । एतद्भाष्यमिति ।
'अन्तरङ्गानि'ति परिभाषाज्ञापनपरं भाष्यम् 'उत्सर्गे'ति वचनस्वीकारे मानम्, अपि-
शब्दाद् युष्माकाद्यादेशविधानसङ्ग्रहः । उत्सर्गे'ति न्यायास्वीकारे मपर्यन्तानुवृत्ति-
ज्ञापकतापरोक्तभाष्यासङ्गतिः स्पष्टैवेति भावः ।
त्वमावित्येव सिद्ध इति । अस्य 'त्वत्पुत्र' इत्यादौ तु त्वमाविति बाधित्वा
प्राप्तस्य 'तवममौ ङसी'ति सूत्रस्य बाधनाय कृते 'प्रत्ययोत्तरपदयोश्चे'ति सूत्रे त्वप-
वादत्वादेवोक्तन्यायेन 'मपर्यन्तस्ये'त्यर्थस्य सिद्धेरिति शेषः । अत एव 'तवादीना-
मप्राप्त्ये'त्याद्युत्तरग्रन्थसङ्गतिः ।
उत्सर्गेति न्यायस्वीकारमन्तरेव भाष्योक्तमपर्यन्तानुवृत्तेरुक्तपरिभाषाज्ञापकत्व-
सम्भवे कथमेतद्भाष्यम् 'उत्सर्ग'ति न्यायस्वीकारे मानम् । अत एव भाष्य उत्सर्गेति
अन्ये त्विति । अत्रापि कल्पे प्रथमकल्पवद् भाष्यविरोधो दुर्वार एवेति बोध्यम् ।

५२ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः २०९
यत्तु हरदत्तेन अन्तरङ्गप्रवृत्तौ प्रत्यय उत्तरपदे च मपर्यन्तासम्भवेन
तदनुवृत्तिः व्यर्था सती ज्ञापिकेत्युक्तम् । तन्न ; अन्तरङ्गाणामप्यपवाद-
बाध्यत्वेन तद्विषये तदप्रवृत्तेः ।
वस्तुतस्तु इदं ज्ञापकं वार्तिकरीत्यैव, भाष्यरीत्या तु वाचनिक
एवायमर्थ इत्याहुः ।
इयं 'सुपो धातुत्वि'ति लुग्विषयैवेति केचित् । 'एङ ह्रस्वात् सम्बुद्धेः,
न यासयोरि'ति सूत्रस्थाऽऽकरप्रामाण्येन लुग्मात्रविषया । आद्ये 'हे त्रपु'
इत्यादौ अनेन न्यायेन लोपं बाधित्वा लुग्भवतीति भाष्ये उक्तम् । अन्त्ये
न्यायो नोक्त इत्याक्षिपतो हरदत्तस्य मतं खण्डयितुमनुवदति—यत्त्विति । मपर्यन्ता-
सम्भवेति । न च 'मदीय' इत्यत्र ममादेशे तत्सम्भव

२१० परिभाषेन्दुशेखरः [ २ प्रकरणे-
अन्तरङ्गांश्च विधीन् सर्वोऽपि लुग्बाधते, न तु सुब्लुगेव । अत एव 'सनीस्रंस'
इत्यादौ नलोपो न भवति । 'पञ्चभिः खट्वाभिः क्रीतः पञ्चखट्व' इत्यादौ
एकादेशात्प्रागेव टापो लुक् । अन्यथा कृतैकादेशस्य लुक्यकारश्रवणं न
स्यादिति कैयटे उक्तम् । एतद्विरोधात् 'यत्तद्राजस्ये'ति सूत्रे कैयटेनोक्तम्
‘अङ्गानतिक्रान्तोऽत्यङ्ग’ इत्यत्र सुपो लुकि बहुवचनपरत्वाभावात् 'तद्रा-
जस्ये'ति लुग् न स्यादिति शङ्कापरभाष्यव्याख्यावसरे 'अन्तरङ्गानपी'ति
न्यायेनायं लुक् सुब्लुको बाधकः स्यादि'त्याशङ्क्य "सुब्लुक् एवानेन
बलवत्त्वं बोध्यत" इति, तत्प्रौढेयेति द्रष्टव्यम् । लुगपेक्षया लुको बलवत्त्वस्य
वक्तुमशक्यत्वादिति तदाशङ्कासमाधानं वक्तुं युक्तम् ।
प्रवृत्तिस्वीकारे बाधकाभावेन भाष्यविरोधस्य दुष्परिहरत्वात् । अपिशब्दघटितपाठे
एतद्भाष्यमपि मानम् । अपिनाऽत्र लाक्षणिकस्य सङ्ग्रहः । लुग् न स्यादिति । तद्राज-
सूत्रे बहुष्वित्यस्य बहुवचने परे इत्यर्थः । 'अति + अंग् + अ + अस् + स्' इत्यव-
स्थायां सामासिकशसो लुकि 'न लुमते'ति निषेधात् प्रत्ययलक्षणाभावेन बहुवचन-
परत्वाभाव इति शङ्काशयः ।
केचित्तु—'आशङ्क्ये'त्यस्याग्रे 'लुगपेक्षयेत्यादि वक्तुं युक्तमि'त्यन्तं ग्रन्थं
संयोज्य, 'परं तदनुक्त्वा यदि'ति शेषं प्रपूर्य, 'सुब्लुक्' इति योजयन्ति । तथा च
इत्याशङ्क्य लुगपेक्षया लुको बलवत्त्वस्य वक्तुमशक्यत्वादिति तदाशङ्कासमाधानं
वक्तुं युक्तम्, परं तदनुक्त्वा यद् सुब्लुक एवानेन बलवत्त्वं बोध्यत इत्युक्तं तत्प्रौढ्येति
द्रष्टव्यमिति योजना । तत्र बीजमाह—अनेनेति । तथा चात्र सुब्लुक एवान्तरङ्गनिमित्त-
विनाशकत्वेन प्राबल्यम्, न तु तद्राजलुकः, तस्यान्तरङ्गनिमित्तविनाशकत्वाभावादिति
ग्रन्थरहस्यमाहुः ।
एतत्फलमप्यूर्णुहीति । 'उतश्चे'ति लुकोन्तरङ्गगुणनिमित्तविनाशकत्वाभावेन
बलवत्त्वाभावात् अन्तरङ्गत्वात् लघूपधगुणे संयोगपूर्वकोकारात् परत्वेन न हेर्लुक् ।
मूले—सनीस्रंस इत्यादाविति । स्रंसेर्यङ्लुगन्ताद्विचि सनीस्रंस् इत्यस्मात् जसि
रूपमिदम्, न तु यङन्तात् पचाद्यचि यङो लुकि रूपम् । एतेन 'न धातुलोपः' इति सूत्रस्य
आरम्भ-प्रत्याख्यानयोः फलभेदाभावाय तादृशलक्ष्याणामनभिधानात् कैयटश्चिन्त्य एवेति परास्तम् ।
नहेर्लुगिति । नन्वत्र 'उपसञ्जनिष्यमाण'न्यायेन लुकोऽप्राप्तिः । अस्ति चात्र सम्भा-
वना—"यदि पूर्वं लुक् न स्यात्, तर्हि गुणे कृते 'असंयोगादि'ति निषेधः प्रवर्तेत" इत्याकारिका ।
अवश्यञ्चैतादृशनिषेधस्थलेऽपि उक्तन्यायप्रवृत्तिरभ्युपेया । अन्यथा 'ऋदुपधेभ्यः' इति वार्तिकं व्यर्थ-
मेव स्यात् । तद्धि 'ववृके' इत्यत्र परत्वात् प्राप्तस्य गुणस्य निषेधाय । तत्र "यद्यत्र गुणो न स्यात्
तर्हि कित्त्वं स्यादि"ति सम्भावनया पूर्वं गुणाभावेन तद् व्यर्थं स्यात् । मम तु "यद्यत्र गुणो न

५३ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः २११
अनेन न्यायेन अन्तरङ्गनिमित्तविनाशकलुकस्तत्प्रयोजकसमासादीनां च
प्राबल्यं बोध्यत इत्यन्यत्र विस्तरः ॥ ५२ ॥
नन्वेवं सौमेन्द्रेऽन्तरङ्गत्वात् आद्गुणे पूर्वपदात्परेन्द्रशब्दाभावेन ‘नेन्द्रस्य
परस्ये’ति वृद्धिनिषेधो व्यर्थः । अन्तादिवद्भावस्तूभयत आश्रयणे निषिद्धः ।
किञ्च वृद्धिरप्यत्र न प्राप्नोति, अन्तादिवत्त्वोभयाभावेऽपि पूर्वान्त-
वत्त्वेनैकादेशविशिष्टे पूर्वपदत्वेन इन्द्रशब्दस्य एकदेशविकृतन्यायेन ‘उभयत
आश्रयणे नान्तादिवत्’ इत्यस्याभावेन तदाश्रयेण वा उत्तरपदत्वेऽपि
तस्यानच्कत्वात् एकस्यैकादेशेन परस्य नित्येन यस्येति लोपेनापहारात् ।
तथा सर्वस्तोमादिबहुव्रीहौ ‘सर्वस्य सुपी’त्याद्युदात्तं बाधित्वा सामासिके लुकि सर्व-
शब्दस्य उञ्छादित्वादन्तोदात्ते बहुव्रीहौ प्रकृत्येत्यन्तोदात्तपूर्वपदकत्वापत्तिर्न । किन्तु
सौवरीणां सप्तानां तदन्तसप्तमीत्वेन कृतेऽपि सामासिके लुकि ‘सर्वस्य सुपी’त्यस्य
प्रवृत्तिसम्भवेन तस्यान्तरङ्गनिमित्तविनाशकत्वाभावेन पूर्वमप्रवृत्त्या ‘सर्वस्य सुपी’-
त्याद्युदात्ते कृते ‘बहुव्रीहौ’ इति प्रकृतिस्वरे आद्युदात्तपूर्वपदकत्वमेव सिद्ध्यति ।
तत्प्रयोजकसमासेति । आदिना प्रातिपदिकसंज्ञादिसङ्ग्रहः । अत एव ‘राजपुत्री’-
त्यत्र लुकः समासस्यान्तरङ्गनिमित्तविनाशकत्वाभावेन पुत्रशब्दात् ङीनि नित्त्वादा-
द्युदात्ते कृते ततः समासे समासस्येत्यन्तोदात्तत्वं सिद्धयति । अन्यथा पूर्वं समासे
ङीनि नित्स्वर-समासस्वरयोः प्राप्तौ अन्तरङ्गत्वात्समासस्वरं बाधित्वा नित्स्वरेऽनिष्ट-
स्वरापत्तिरिति दिक् ॥ ५२ ॥
अन्तादिवत्त्वोभयाभावेऽपीति । केचित्तु — अपिस्त्वर्थे । तथा च अन्तादिवत्त्वोभया-
भावे तु ‘उभयत आश्रयणे नान्तादिवदि’ति निषेधाभावेन पूर्वान्तवत्त्वेनैकादेश-
विशिष्टे पूर्वपदत्वेन एकदेशविकृतन्यायेन तदाश्रयणेन उत्तरपदत्वातिदेशेन इन्द्र-
शब्दस्य चोत्तरपदत्वेऽपि तस्यानच्कत्वात् वृद्धिरप्यत्र न प्राप्नोतीत्येतदन्वयमाहुः ।
अन्ये तु—उभयत आश्रयणे नान्तादिवदित्यस्य निषेधस्याभावेन वस्तुतो-
ऽस्वीकारेणेत्यर्थः । प्रकारान्तरमाह—तदाश्रयणेन वेति । उभयत आश्रयणे इति
वचनस्य आश्रयणेन वा अन्तादिवत्त्वोभयाभावेऽपि अन्तादिवत्त्वोभयस्य अतिदेशा-
भावेऽपीत्यर्थः । ततो यथाश्रुतमन्वयमाहुः ।
वस्तुतस्तु — ‘उभयत आश्रयणे नान्तादिवदित्यस्याभावेन तदाश्रयणेन वा’
इत्यन्तग्रन्थोऽत्र प्रक्षिप्तो बोध्यः ।
स्यात्तर्हि कित्त्वं स्यात्, यदि च कित्त्वं न स्यात्तर्हि गुणे कृते “असंयोगादि'ति निषेधः स्यादि”ति
परस्परं सम्भावनाद्वयसत्त्वेन 'सुन्दोपसुन्द'न्यायेन 'उपसञ्जनिष्यमाण'न्यायाप्रवृत्त्या परत्वात् गुण
प्राप्ते तदावश्यकमिति नेदं फलमित्यत आह—तथा सर्वस्तोमेति ॥ ५२ ॥

२१२ परिभाषेन्दुशेखरः [ २ प्रकरणं-
न च परादिवद्भावेन एकादेशविशिष्टस्य उत्तरपदत्वमेवास्त्विति
तत्सम्भव इति वाच्यम् ; उत्तरपदाद्यच्स्थानिकत्वाद् वृद्धेस्तदभावेनाप्राप्ते-
स्ताद्रूप्यानतिदेशात् । अन्यथा 'खट्वाभिर्'त्यादावपि पूर्वान्तवत्त्वेनादन्तत्वे
भिस ऐसापत्तिरिति भाष्ये स्पष्टम् । अत एव 'पूर्वेषुकामशम' इत्यादौ
अन्तरङ्गत्वाद् गुणे वृद्धिर्न स्यादित्याशङ्कितम् । तदेकदेशमात्रस्य विकारा-
भावाच्च ।
ताद्रूप्यानतिदेशादिति । ननु 'क्षीरपेणे'त्येत्र एकाजुत्तरपदत्वस्यातिदेशाय स्ववृत्तित्व-
स्वस्थानिकादेशावृत्तित्वोभयसम्बन्धेन अन्तादिवर्णविशिष्टस्यैव अल्मात्रवृत्तिधर्मस्य
ताद्रूप्यपदेन ग्राह्यतया सोमेन्द्रेऽतिदेष्टव्यस्य अच्त्वरूपस्य अल्मात्रवृत्तिधर्मस्य स्व-
स्थानिकैकाररूपादेशवृत्तित्वेन तत्त्वाभावान्निषेधाप्रवृत्तिः । किञ्च एन्द्रघटक एकारे
अच्त्वस्य सिद्धतया उत्तरपदत्वस्यातिदेष्टव्यस्य च निषेधाविषयत्वेन उक्तसमाधेरसम्भ-
वश्चेति चेन्न । 'अन्तादिवच्चे'त्यनेन शास्त्रीयधर्मस्यैवातिदेशेन उत्तरपदत्वमात्रधर्मस्या-
शास्त्रीयत्वेन अतिदेशासम्भवात् । ताद्रूप्यपरिष्कारे निरुक्तसम्बन्धद्वयेन स्वविशिष्टा-
ल्मात्रवृत्तिधर्मस्य विशेषणदलप्रविष्टयावत्पदार्थसङ्कुचितस्यैव ग्रहणादच्त्वस्य उक्त-
ताद्रूप्याभावेऽपि उत्तरपदादित्वरूपविशेषणदलप्रविष्टधर्मेण सङ्कुचितस्य तादृशस्य
उत्तरपदाद्यच्त्वस्य स्वस्थानिकादेशावृत्तित्वेन स्ववृत्तित्वेन चोक्तरूपतया न वा ताद्रूप्या-
दिति निषेधविषयत्वस्य सुवचत्वात् । उत्तरपदाद्यच्त्वरूपशास्त्रीयधर्मघटितत्वेन शास्त्री-
यत्वाक्षतेः । अत एव 'प्रपठ्ये'त्यत्र वल्त्वरूपशास्त्रीयधर्मघटितत्वेन वलादित्वस्य
शास्त्रीयतया स्थानिवत्त्वेन अतिदेशमाशङ्क्य विशेषणतया अलाश्रयणादनल्विधाविति
निषेध इत्युक्तमाकरे ।
अत एवेति । ताद्रूप्यस्यानतिदेशादेवेत्यर्थः । पूर्वेषुकामशम इति । पूर्वा चासौ
इषुकामशमी च तस्यां भवेत्यर्थेऽणि प्राचां ग्रामनगराणामिति वृद्धिर्बहिरङ्गतयाऽन्त-
रङ्गतवादाद्गुणे उत्तरपदाद्यच्त्वाभावाद् वृद्धिर्न स्यादिति भावः । ननु ऐन्द्रशब्दस्य एक-
देशविकृतन्यायेनोत्तरपदत्वं तेनैव सोमिति मान्ते इत्येकारान्ते च पूर्वपदत्वं चास्तु,
तावता च न पूर्वोक्तदोषावकाश इति शङ्कां मनसि निधायाऽऽह — तदेकदेशेति । अस्य
न्यायस्य लौकिकत्वेन लोके तत्रैव प्रवृत्तिदर्शनेनात्र तद्विषयाभावात् ।
ग्रन्थरहस्यविदस्तु—किञ्च 'वृद्धिप्रप्यत्र न प्राप्नोति, अन्तादिवत्त्वोभयाभावेऽपि'-
त्यन्तमेकं वाक्यम् । अत्रापिश्चार्थे । यथा उभयत आश्रयणेऽन्तादिवद्भावनिषेधाद्
वृद्धिनिषेधो न प्राप्नोति, एवम् अन्तवत्त्वादिवत्त्वोभयस्यातिदेशाभावे वृद्धिर्पि न
प्राप्नोतीत्यस्यार्थः । वृद्धिप्राप्तिं प्रकारद्वयेनोद्भावयति—पूर्वान्तवत्त्वेनेति । पूर्वान्त-
वत्त्वेनैकादेशविशिष्टे सोमे शब्दे पूर्वपदत्वे इन्द्रशब्दस्यैकदेशविकृतन्यायेन उत्तर-
पदत्वे उभयत आश्रयणेति निषेधाभावेन वृद्धिं प्राप्नोतीति सम्बन्धः । द्वितीयं
वृद्धिप्राप्तिप्रकारमाह—तदाश्रयणेति । तदाश्रयणेन = एकदेशविकृतन्यायाश्रयणेन सोमिति
मान्ते पूर्वपदत्वे ऐन्द्रशब्दे उत्तरपदत्वे उभयत आश्रयणे नान्तादिवदित्यस्याभावेन